SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽधिकारः [ १३९ भञ्चितम् । तेन छलं कृत्वा पत्युर्गृहे यास्यामि । ततः सा सायं महिषपुच्छे बिलग्ना चलन्ती त्राह--''पाडा मांडमतेडिल्हं तुरीसाथी छउ" । इति जल्पन्नी स्वगृहे समायाता । ततः श्वशुरस्य पतिकवद्भक्तिं चक्रे । इति सदुपदेशे श्रेष्ठपुत्रसम्बन्धः || २२९ ॥ [23] कपटे छालीदन्ताली ग्राहकद्विजसम्बन्धः । एकस्मिन्पुरे कृष्णद्विजस्य ज्योतिष्कस्य छालीदन्ताल्यादयो गृहे विलोक्यन्ते । स चान्यदा कस्यचिदाभीरस्य गृहे तत्पुत्रस्य चिकित्सार्थं गतः । तत्तस्य नाड्यादि वीक्ष्य लग्नं विलोक्य मस्तकं द्विजोऽधूनयत् । ततः स आभोरोऽवग्- मस्तकधून नकारणं प्रोच्यताम् । द्विजोऽवग्विषमोऽस्य रोगः । पिताऽवग्-कथं याति रोगः ? वैद्योऽवग्--कथयिष्यते । ततस्तस्य गृहऋद्धिं विलोकययन प्राह काली छाली घरखग्रकाली एवं ताली रोगनी आली । ए रोग छ आमलदूमल, तो जाइ जो दीजइ पांच पींडल ||१|| ततः स तस्मै छाल्याद्यं सर्वं ददौ । ततः क्रमाद्रोगोऽपि गतः । आभीरोऽवम्-अयं वैद्यो वर्यः । इति कपटे छालीदन्तालीग्राहकद्विजसम्बन्धः ||२३०|| [231] अथ रात्रौ उच्चैर्न जल्पितव्यमिति सम्बन्धः । एकस्मिन्पुरे घाचि रात्रौ तिलभृतं शुण्डलर्क पोलयितुं मुक्त्वा सुप्तः । मध्यरात्री वैदिकद्विजोच्चारितोच्चैः शब्दश्रुतेजागरितः सकाल एवोत्थितः । वाणिकायां तिलान् क्षिप्वा पीलयामास । तेलमसदृशं दृष्ट्वा पार्श्वे बिलाडिको रुदन्तीं दृष्ट्वा खलमध्येऽस्थिशकलानि दृष्ट्वा बिलाडिका बालकं पिलितं जज्ञौ । ततः पश्चात्तापवान् सोवोरपार्श्वे व्रतं लात्वा स्वकृतं पाप प्रकाशयामास । भगवन् प्राह-बहु पापं द्विजानां लग्नं रात्रावुच्चैः शब्दोच्चरणात् । तब पापं स्तोकमज्ञानात्तव कृपा हृदि त्वयाऽतः परं रात्रावुच्चैर्न वक्तव्यम् । यतना च कार्या । ततस्तत्पापमालांच्य स्वर्गं गतः । ततो मुक्तिं यास्यति । इति रात्रावुच्चैर्न जल्पितव्यमिति सम्बन्धः || २३१ ॥ [232] देवपूजायामभयकुमार सम्बन्धः । afggit गृहे श्रीरस्ति । जिनपूजां विशेषतः श्रेष्ठी चक्रे | एकदा बटुकं कणान् मार्गयन्तं दृष्ट्वा श्रेष्ठी पप्रच्छ कियन्तः कणाः कणवृत्तौ मिलन्ति । तेनोक्तं- मानकमेकं । श्रेष्ठी प्राह-मम देवपूजार्थ वाटीतः पुष्पाणि त्वयाऽऽनेतव्यानि तुभ्यं " Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy