SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १४ ] प्रबन्धपती 5 10 15 ततो गुरुपाश्र्वे देवद्रव्यभक्षणसम्बन्धं श्रुत्वा तपस्तप्त्वा दीक्षाग्रहणात्सर्वकर्मणः क्षय कृत्वा मुक्ति ययौ । इति कुत्सितकर्मविषये सागरश्रेष्ठिकथा ॥११॥ [112] अथ ७२ देवकुलिकासु ध्वजा दत्ता। एकदा तेजःपालमन्त्री भृगुपुरे ययौ । तदा शकुनिकाविहारे आम्बडमन्त्रिकृतोद्धारे स्नात्रं कुर्वाण इदं काव्यमशृणोत्तेजःपालकृपालु धर्मविमलप्राग्वाटवंशध्वज श्रीमानाम्बडकीतिरद्य वदति त्वत्संमुखं मन्मुखात् । आजन्मावधि वंशयष्टिकलिता भ्रान्ताहमेकाकिनी, बद्धा सम्प्रतिपुण्यपुञ्जभवतः सौवणेदण्डस्पृहाः ॥१॥ इति श्रुत्वा मन्त्री आम्बडदेवविहारे सप्ततिशतदेवकुलिकाः सुवर्णदण्डयुतान् कलशान तदैव व्यधात् । भृगुकच्छस्थाम्घडविहारे (इति) आम्बडप्रासादे तेजःपालो मन्त्री ध्वजं ददौइति भृगुपुरे शकुनिकाविहारे तेजःपालमन्त्रिणा ७२ देवकुलिकासु ध्वजा दत्ता ॥११२।। [ 113] अथ अन्नदानः पयः सम्बन्धः।। कश्चिदूराद् भट्ट आगात् वस्तुपालमन्त्रिणं याचितुं, तदा मन्त्री जगौ-'उपविश्यताम् । भट्टोऽवग-अन्नदानः पयःपान-धर्मस्थानश्च भूतलम् । यशसा वस्तुपालेन, रुद्धमाकाशमण्डलम् ॥१॥ सप्तवारकथनेन सप्त लक्षद्रव्यं दापितं मन्त्रिणा । अन्नदानैः पयःपानैरितिसं०७ लमदानम् । इति अन्नदानः पयः सम्बन्धः ॥११३॥ [114 ] अथ औदायें वस्तुपालसम्बन्धः । स्नेहः साधुजनेन भोजनविधौ वासः कुटीकोटरे, देहस्यावरणे न पुण्यमधिकं, नेत्रे न कोशोच्चयः । अर्थः सूत्रितनव्यकाव्यनिकरे ग्रन्थो [न्थे] न मन्त्रीश्वर __ स्यावृत्तिः पठनेन जीवनविधौ प्रायः कवीनां कलौ ॥१॥ अस्य कर्तुः ३ लक्षदानम् । इति औदार्ये वस्तुपालसम्बन्धः ॥११४॥ [115] अथ वनकपुष्पोत्कृष्टतासम्बन्धः । एकदा गुरोः पावें श्राद्धैः पृष्ट-भगवन् ! सर्वेभ्यः पुष्पेभ्यः किं पुष्पमुत्कृष्टम् ? गुरुभिरुक्तं वनकपुष्पमुत्कृष्टम् । श्राद्धरुक्तम् एवं किं प्रोच्यते ? गुरुभिः प्रोक्तं-वनकतरोः पुष्पात्कर्पासो भवति, कर्पासाद्रूतं, रूतात्सूत्रं, सूत्राद्वयं वस्त्रं भवति । वस्त्रेण जिनप्रासादे ध्वजा दीयन्ते, 20 25 "Aho Shrutgyanam".
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy