SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽधिकारः [६१ 15 राजाऽवग कीर ! पण्डितचार्वाक !, जनानामतिवल्लभ ! परनिन्दा न कर्तव्या, परचिन्तां परित्यजेत् ॥५॥ शुकोऽवग अपूर्वा दृश्यते वाणी, वृत्तिर्भक्षति चिर्भटान् । तस्मिन् देशे न यातव्यं, यतो रक्षा ततो भयम् ॥६॥ राजाऽवग-- यस्मिन् रुष्टे भयं नास्ति, तुष्टे नैव धनागमः । आगमो निर्गमो नास्ति, स रुष्टः किं करिष्यति ॥७॥ राजा शुकवचनमवगणय्य यावदग्रतोऽचालीत् तावदने मार्जारः फेत्कारान् भृशं कुरुते स्म। 10 शुकः पुनर्मार्जारं कन्दन्तं श्रुत्वा प्राह राजि [राशि] शृण्वति मा त्वमानन्द मार्जार ! नन्दो राजा न तस्करः ।। अमृते विषमुत्पन्न, यतो रक्षा ततो भयम् ॥८॥ राजाऽवग न पश्यन्ति हि जात्यन्धाः कामान्धो नैव पश्यति । नहि पश्यति मदोन्मत्तः, अर्थी दोषान पश्यति ॥६॥ ततोऽबमन्य शुकं भूपमागच्छन्तमकाले दृष्ट्वा मन्त्रिपली शय्या मुक्त्वा एकतः स्थित्वा माह राजन् ! शान्तिं व्रजाहाय, रक्ष देहं धनादिकम् । मन्त्रीशस्ते सुतो नूनं, कीरवाक्यप्रजन्पनात् ॥१०॥ राजा मन्त्रिपत्नीवचः श्रुत्वा ध्वनितशिरः[गिरा] प्राह सत्यं सत्यं पुनः सत्यं, सत्यं च कीरभाषितम् । वैरोचनः सुतो मेऽयं, स्वं च कुलवधूमम ॥११॥ इत्येवमुक्त्वा लज्जितो राजा शीघ्र मन्त्रिपत्नीवाह निकां परिधाय स्वीयांच] तत्र विस्मृत्य कीरपार्श्वे भूत्वा द्वारमेत्य द्वास्थं प्रति प्राह 25 अमृतं मधुसंयुक्तं, वणिगपुत्रगृहे न तु | न पपो नृपतिस्तत्र, पश्चादर्पय कुण्डलम् ॥१२॥ द्वास्थोऽवग वारिमध्यस्थिता गावः, पिवन्ति न पिबन्ति च । निर्दोषास्तत्र गोपाला, हारितं रत्नकुण्डलम् ॥१३॥ 30 "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy