SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ५२ ] प्रबन्धपश्चशती 15 ____ आम्रभट्टेन भृगुपुरे शकुनिकाविहारोऽकारि, तत्र षट्कोटिमितं हेम्नां लपम् । इति शत्रुजयोद्धारप्रवन्धः, बहुद्रव्यव्ययाभृगुकच्छे शकुनिका विहारोद्धारश्च कारितः १९४}} [95 ] अथ ध्वजोत्तारण-पुनरारोपणसम्बन्धः । अन्यदा सिद्धराजजयसिंहो रुद्रप्रासादं महान्तं कारयित्वा ध्वजारोपणसमये सर्वजैनप्रा5 सादानां ध्वजोत्तारणं कारितवान , मन्त्रिभिर्वारितोऽपि न तस्थौ । स भूपो मालवमण्डले गत्वाऽन्येद्यः श्रीनगरमहास्थाने आगमत् । सर्वेषु प्रासादेषु ध्वजारोपं वीक्ष्योक्तं भूपेन, केषां प्रासादा एते ? तैरुक्तं-शिव-ब्रह्म-जिनप्रासादा एते । ततो रुष्टो राजाऽवग-मया सर्वेषां जैनप्रासादानां ध्वजारोपो निषिद्धः, भवद्भिरिदं पताकादि किं क्रियते जैनप्रासादेषु । तैरुक्तं,श्रयतां पुरा श्रीमन्महादेवेन कृतयुगप्रारम्भे महास्थानमिदं स्थापितम् । श्रीऋषभदेव-श्रीब्रह्म10 प्रासादी स्वयं स्थापितौ, प्रदत्तौ ध्वजौ । तस्मादनयोः प्रासादयोः सुकृतिभिरुध्रियमाणयोश्चत्वारो युगा व्यतीताः [चत्वारि युगानि व्यतीतानि । श्रीशत्रुञ्जयमहागिरेः पुरा नगरमेतदुपत्यकाभूमिः, यतो नगरपुराणेऽप्युक्तम् पञ्चाशदादो किल मूलभूमे-दशोर्ध्व भूमेरपि विस्तरोऽस्य । उच्चत्वमष्टैव तु योजनानि, मानं वदन्तीति जिनेश्वराद्रेः ॥१॥ इति कृतयुगे आदिदेवः श्रीऋषभस्तत्पुत्रो भरतस्तन्नाम्ना भरतखण्डमिति प्रतीतंनाभेरुता (१) स वृषभो मरुदेविसूनु-यो चै चचार समग मुनियोगचर्याम् । तस्याईन्त्यसोमुषय (?) पदमामनन्ति, स्वस्थः प्रशान्तकरुणः समदृक्सुधीश्च ॥२॥ अष्टमे मरुदेव्यां तु नाभेर्जाते उरक्रमः । दर्शयन्वर्त्म वीराणां, सर्वाश्रमनमस्कृतः ॥३॥ 20 इत्यादि पुराणोक्तानि भूरिशो भूपाने कथितानि तैर्द्विजैः, यथा तेन तदाद्यस्थापनाय ऋषभदेवौकः कोशात् श्रीभरतनामाङ्कितं पञ्चजनवाह्यं कांस्यतालमानीय भूपस्याने मुक्तं द्विजैः। ततः प्रभृति स्वं निन्दयित्वा भूपः सर्वेषु जिनप्रासादेषु पुनर्वजारोपणं चकार । इति ध्वजोत्तारण-पुनरारोपणसम्बन्धः ॥९५।। [96] जिनध्यानपूजाफलविषये शुकीकथा । कस्मिंश्चिद्वने शमीपादपे शुकः शुकीयुतो बसति स्म । क्रमात्तयोः शुकः पुत्रोऽभूत् । एकदा शुक्योक्तं-पुत्रो मदीयः, शुकेनोक्तं-पुत्रो मदीयः, ततो विवादे जायमाने भृशं संप्रति भूपतिपार्श्वे ययौ । शुकीशुको स्वं स्वं रुचितं प्रोचतुः ।। ततो राज्ञोक्तं-अयं शुकस्य पुत्रः, ततः शुकी दुःखिताऽजनि, शुकः स्वं पुत्रं गृहीत्वा गतः। शुकी जिनालये गत्वाऽऽदिजिनप्रतिमां वीक्ष्य नत्वा वनात्पुष्पाण्यानीय पूजयामास । ततः 30 क्रमाज्जिनध्यानेन मृत्वा शुकी मन्त्रीश्वरपुत्री तिलोत्तमा नामाऽभूत् । वर्द्धमाना पित्रा सर्वकला पाठिता पुत्री । "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy