SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ४२ ] प्रबन्धपश्चशती ततो दयिताकदाग्रहं मत्वा सोऽन्यदा वानरं प्रत्यवग्-मित्र ! त्वदीयभ्रातृजाया त्वामाकारयति, तत्र तव भक्ति करिष्यति । ततः स वानरो भ्रातृजायामिलनार्थ मकरपृष्ठिमारूढः कियन्ती चेलामतिक्रान्ता* । ततः कपिः प्राह-मया तत्रगतेन किं कर्त्तव्यं ? तव पत्नी मम कोदशी भक्ति करिष्यति । तदहो मकरो दध्यौ-मया तु बहुजले समानीतोऽत्र । इदं जलमुत्तीर्य पश्चाद्गन्तुं मया विना न शक्नोति । अतः सत्यमेव वच्मि । ततः पन्या दोहदस्वरूपं प्रोक्तं तेन वानराने। त वानरो ध्यौ-तत्र यदि गतोऽहं तदा मृत एव, अतो बुद्धिर्विधीयते मया । ततोऽवग्वानरः-मित्र ! मां त्वं तत्र नयन्नसि परं भ्रातृजयामनोरथ एवं पूर्णो न भावी। मकरोऽवग-किमिदं वदसि ? वानरोऽवग-मम क्टे चित्तं विद्यते । हृदयं तूदम्बरे वृक्षे समस्ति, तेन गृहीत्वा यदि गम्यते तदा भ्रातृजायामनोरथः सफलो भवति । ततो मकरः पश्चाद्वलितः अब्धितटे समागात्। ततो वानरो तत्पृष्टित उत्तीर्य वृक्षमारूढः प्राह-मित्र गच्छ, पश्चात् मैत्र्याः श्रितं [स्थिति] मम भ्रातृजाया अग्रे प्रोक्तव्यं-वानरो वटाच्चित्तमुदुम्बरात् हृदयं मुक्तं लातुं गतोऽस्ति । अहं तु त्वया सह मैत्री न करिष्येऽतः परं, यतः जलजन्तुचरैर्नित्यं, जलमार्गानुसारिभिः । स्थलजैः संगतिर्न म्याद्-ब्रुवन्ति मुनयो ध्रुवम् ॥६॥ इति वटचित्तमुदुम्बरिहृदयम् । इति मकरवानरसम्बन्धः ॥७६॥ [77 ] सत्पात्रदानसम्बन्धः । दानं धर्मेषु रोचिष्णु, तच्च पात्रे प्रतिष्ठितम् । मौक्तिकं जायते स्वाति-वारि शुक्तिगतं यथा ॥१॥ केसिं च होइ वित्तं, चित्तं केसि पि, उभयमन्नेसिं । वित्तं चित्तं पत्तं, तिन्नि पुण्योहिं लब्भंति ॥२॥ कश्चिद्राजा दानपराङ्मुखोऽन्यदा महाटव्यां गतः । सपरिवारोऽटवीं पश्यन् भूपो मधूकाभिधस्य[वृक्षस्य अधस्तात् स्थितः, स मधूको वृक्षस्तदा बिन्दून् मुञ्चति । राज्ञोक्तं-भो पण्डित ! अयं मधूकः कथं रटति ? तदैकेन पण्डितेन भूपप्रतिबोधायेति प्रोक्तं यदास्ति पात्रं न तदास्ति वित्तं, यदास्ति वित्तं न तदास्ति पात्रम् । एवं हि चिंतापतितो मधूको मन्येऽश्रुपातै रुदनं करोति ॥३॥ श्रुत्वैतभूपः सत्पात्रदानपरोऽभूत् । इति सत्पात्रदानसम्बन्धः ।।७७।। [78 ] दाने सुदर्शनश्रेष्ठिकथा । चम्पापुर्या जिनदासश्रेष्ठी, तस्स गृहे महिषीपालः सुभगनामा बभूव । स च सदा महिषी चारयितुं वने याति । एकदा शीतकाले वनमध्ये कायोत्सर्गस्थितं यतिं दृष्ट्वा दयापरो * 'तो' इति शुदं दृश्यते । अपवा-न्तः । अथवा 'कियन्ती चेलाऽतिकान्ता'। "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy