SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रबन्धे ९ श्रीबप्पमट्टिसरिप्रतिज्ञा चक्रे- तदा विद्या मे प्रमाणं यदि वाक्पति स्वशिष्यं श्वेताम्बरं कुर्वे । वाक्पतिस्तु क्वास्ति इति उच्यताम् ? । राज्ञोक्तम्- 'मथुरा'यां विद्यते । सूरयो 'मथुरा'यां गता बहुभिः श्रीआमाप्सनरैः सह । 'वराहमन्दिरा'ख्ये प्रासादे ध्यानस्थं वाक्पतिं गत्वाऽद्राक्षुः । तत्पृष्ठस्थैः सूरिभिस्तारस्वरेण आशीर्वादाः पठितुमारब्धाःसन्ध्यां यत् प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे धरसे यच्च परां विलज्ज ! शिरसा तच्चापि सोढं मया । श्रीर्जाताऽमृतमन्थनाद् यदि हरेः कस्माद् विषं भक्षितं ? मा स्त्रीलम्पट ! मा स्पृशेत्यभिहितो गौर्या हरः पातु वः ॥१॥ एकं ध्याननिमीलनान्मुकुलितं चक्षुर्द्वितीयं पुनः पार्वत्या विपुले नितम्बफलके शृङ्गारभारालसम् | अन्यद् दूरविकृष्टचापमदनक्रोधानलोद्दीपितं शम्भोभिन्नरसं समाधिसमये नेत्रत्रयं पातु वः ॥२॥ १५ रामो नाम बभूव हुं तदबला सीतेति हुं तां पितु र्वाचा 'पञ्चवटी'वने विचरतस्तस्याहरद् रावणः । निद्रार्थ जननीकथामिति हरेहुंङ्कारिणः शण्वतः पूर्वस्मर्तुरवन्तु कोपकुटिला भूभङ्गुरा दृष्टयः ॥३॥ उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्याः । सधस्तत्कायकान्तिद्विगुणितसुरतप्रीतिना सौ(शौ)रिणा व शय्यामालिङ्गय नीतं वपुरलसलसद्बाइ लक्ष्म्याः पुनातु ॥४॥ एवं बहु पेठे । अथ वाक्पतिर्ध्यानं विसृज्य सम्मुखीभूय सूरीनाह- हे बप्पमट्टिमिश्रा ! यूयं किमस्मत्पुरतः शृङ्गाररौद्राङ्गं २५ पद्यपाठं कुरुध्वे ? । बप्पभट्टयः प्राहुः-- भवन्तः साङ्ख्याः । १ ग-'नदी'। २ घ--'मन्थने' । ३ माम् । ४६ शार्दूल । " ग--सुरते प्रीतिना.' : विष्णुना । ९ स्रग्धरा ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy