SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ २९६ चतुर्विंशतिप्रब कारितमित्याद्युल्लेखा वर्तते । जैनपरम्परानुसारेणैतस्योत्पत्तिः विक्रमसंवत्सराद् द्विशताब्दीपूर्विका यतोऽवन्तीसुकुमालः श्रीआर्य सुहस्तिसूरेः शिष्यः । एतत् स्थानं सिप्रानदीसमीपेऽस्तीति निर्देशः प्राचीनग्रन्थेषु । “कुडङ्गको वृक्षलतागहनं" इत्यमरकोशे तृतीये काण्डे (लो. १७ ) । अनेनानुमीयते यदुतैतद् वृक्षलतामयं सम्भवति । अधुना महाकालेति प्रसिद्धं स्थानं सिप्राः पूर्वे तटे पिशाचमुक्तेश्वरेऽस्ति । प्राचीन समयान्महाकालस्य महिमा वर्तते, यतः स्कन्द-मत्स्य- नारसिंहपुराणेषु रघुवंशे ( स. ६, श्लो. ३४ ) मेघदूते (लो. ३४ ) चैतस्य भावनामय निर्देशो वरीवर्ति । ३६, ६-७ प्रभावकचरित्रे ' मा रोव मोडहिं ' स्थाने ' मन आरामा म मोड' इति विशिष्टं पाठान्तरम् । तत्रास्य पद्यस्यार्थत्रितयमेव दर्शितम्, अधिकार्थसूचनसामर्थ्याभावात् । श्रीवृद्धवादिना स्वनेकेऽर्था सूचिता इति श्रीप्रभाचन्द्रसूरेरभिप्रायः । ३९, १२ जीवादितत्त्वार्थश्रद्धानं सम्यक्त्वमुच्यते । अस्य विवेचनं विद्यते तत्त्वार्थ ( अ. १, सु. २, ३, ७, ८ ) टीकायाम् । ३९, १२ द्वादशवतीनामार्थं प्रेक्ष्यतां ७६तमे पृष्ठेऽष्टमं टिप्पणकम् | ४२, ११ सिद्धसारस्वतस्य विस्तृतं स्वरूपं न मे नयनगोचरतां गतम् । ४३, ८ सौरमन्त्रः कीदृगिति निवेदने नाहमलं, साधनाभावात् । ४३, ११ वैक्रियं शरीरं द्वितीयं, शरीराणां पञ्चविधत्वात् । एतत्स्वरूपं समस्ति तत्त्वार्थ (अ. २, सू. ३७-३९, ४१) टीकायाम् । ४४, ७ सूक्ष्मकर्करस्य स्वरूपं स्पष्टं नावगम्यते । ४६, ११ ( द्वादशार) नयचक्राभिधो ग्रन्थो न कुत्राप्यधुना दृश्यते । ५७, १० 'डीसा' तो वायव्याकोणे दश क्रोशान् यो ग्रामोऽस्त्यधुना स रामसैन्याभिध इति सम्भावना क्रियते ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy