SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २६८ चतुर्विशतिप्रबन्धे विश्वाग्निविश्वोन्मित( ३३३ )सरिवर्ग श्चतुःसहस्री द्विशती (४२००) युता च । सङ्ख्या मुनीनां च दिगम्बराणा__ मेकादशानीह शतानि ( ११०० ) सङ्घ ॥३॥' त्रयः सहस्रास्त्रिशती ( ३३०० ) च भट्टाः शतं च साई ( १५० ) वरनर्तकीनाम् । अश्वास्तु वेदाङ्कसहस्र( ४००० )सङ्ख्याः साशीति चत्वारि शतानि( ४८०) तूष्ट्रयः ॥४॥ विक्रमार्कसमये सुरगर्षि-बध्न( १२६१ )वत्सरकृतादिमयात्रः । १० इत्थमद्भुतसमृद्धिसुकीर्ति-वस्तुपालसचिवः स मुदेऽस्तु ॥५॥ कोटीनां त्रिशतानि सप्ततिरहो कोटयस्त्रिभिः साधिका लक्षाः सप्ततिरद्भुतैकसुकृतेष्वासन् व्ययैः सर्वतः । मात्रा द्वादश यस्य सार्द्धसहिताः पूर्वोक्तसामग्रिका इत्थं कल्पतरुः श्रितातिहरणे श्रीवस्तुपालः कलौ ॥६॥ १५ जैनागारसहस्रपञ्चकमिति स्फारं च पादाधिक लक्षं श्रीजिनमूर्तयः सुविहिताः प्रोत्तुङ्गमाहेश्वराः । प्रासादाः पृथिवीतले ध्वजयुताः सार्धं सहस्रद्वयं प्राकाराः परिकल्पिता निजधनैर्द्वात्रिंशदत्र धुवम् ॥७॥ सत्रागारशतानि सप्त विमला वाप्यश्चतुःषष्टयः प्रोच्चैः पौषधमन्दिराणि सुमहज्जैनाश्च शैवा मठाः । विद्यायाश्च तथैव पञ्चशतिकाः प्रत्येकतः प्रत्यहं पश्चत्रिंशशतानि जैनमुनयो गृहन्ति भोज्यादिकम् ॥८॥ १-२ उपजातिः। 3 स्वागता । ४-६ शार्दूल.
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy