SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धकोशेत्यपराये छत्रच्छायाछलेनामी, धात्रा चक्रे निवेशिताः । भ्रमन्तोऽपि स्वमात्मानं मन्यन्ते स्थिरमीश्वराः || ४ || कालेन सौनिकेनेव, नीयमानो जनः पशुः । क्षिपत्येष धिगासन्ने, मुखं विषयशावले ||५|| कायः कर्मचरोऽयं तन् - मात्रकार्याऽतिलालना | भृतिमात्रोचितो ह्येष प्रपुष्टो विचिकीर्षति ॥ ६ ॥ 1 २०९ प्रयोजकान्यकार्येषु, नश्यन्त्याशु महापदि । दुर्मित्राणी खान्येषु, बन्धुबुद्धिरधीमताम् ||७|| विषयामित्रमुत्सृज्य दण्डमादाय ये स्थिताः । संसार सारमेयोऽसौ बिभ्यत् तेभ्यः पलायते ॥ ८॥ दुःखानि स्मराग्निर्वा, कोधाग्निर्वा हृदि ज्वलन् । न हन्त शान्तिमायान्ति, देहिनामविवेकिनाम् ||९|| विधौ विध्यति सक्रोधे, 'वर्म धर्मः शरीरिणाम् | स एव केवलं तस्मा - दस्माकं जायतां गतिः ॥१०॥ इत्यादि ध्यात्वा वखाणि परावृत्य श्रवस्तुपालः सपरिजनो १५ बुभुजे । गृहीताम्बूल राजकुलमगमत् । एवं दिनसप्तके गते प्रथमं तद्राज्यजीर्णाधिकारी एक एकविंशतिलक्षाणि वृहद्रम्माणां दण्डतः । पूर्वमविनीतोऽभूत् । तदनु विनयं ग्राहितः । तैर्द्रव्यैः कियदपि हयपत्तिलक्षणं सारं सैन्यं कृतं तेजःपालेन । पश्चात् सैन्यबलेन 'धवलक्क’प्रतिबद्धग्रामपञ्चशतीग्रामण्यश्चिरं सञ्चितं धनं हक्कयैव द- २० ण्डिताः । जीर्णव्यापारिणो 'निश्रोतिताः । एवं मिलितं प्रभूतं स्वम् । ततः सबलसैन्यसङ्ग्रहपटुतेजसं श्रीवीरधवलं सहैवादाय सर्वत्र देशमध्येऽभ्रमन् मन्त्री । अदण्डयत् सर्वम् । ततोऽद्भुतऋद्धि। वीरधवलः । तेजःपालेन जगदे-देव ! 'सुराष्ट्र' राष्ट्रेऽत्यन्तधनिन १० १ ख- 'यत्रच्छाया ०' | २ ख- 'धर्मवर्म शरी०', घ - ' वर्म धर्म शरी०' । ३ 'नीचोवाया' इति भाषायाम् । चतुर्विंशति: २७
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy