SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ११६ चतुर्विंशतिप्रबन्धे वरं प्रज्वलिते वहा वह्नाय निहितं वपुः । न पुनर्गुणसम्पन्ने, कृतः स्वल्पोऽपि मत्सरः ॥१॥ ' वरं सा निर्गुणाऽवस्था, यस्यां कोऽपि न मत्सरी । गुणयोगे तु वैमुख्यं, प्रायः सुमनसामपि ॥ २ ॥ | [99 श्री हर्षवि तस्मात् खला यूयम् । गच्छत एतं महात्मानं प्रत्येकं स्वगृहेषु सत्कुरुत । तदा श्रीहर्षः 'प्रागदीत् १० यथा यूनस्तद्वत्परमरमणीयाऽपि रमणी कुमाराणामन्तःकरणहरणं केब कुरुते । मदुक्तिश्चेतश्चेन्मयति सुधीभूय सुधियः किमस्या नाम स्यादरसपुरुषाराधनरसैः १ ॥१॥ * इति ललजिरे पण्डिताः । सर्वे गृहं नीत्वा सत्कृत्यानुनीय राज्ञा च सत्कार्यज्ञैः प्रहितः श्रीहर्ष : 'कासी (शी ? ) ' म् । मिलितो जयन्तचन्द्राय । उक्तं सर्वम् । तुष्टः सः । प्रसृतं नैषधं लोके । अत्रान्तरे जयन्तचन्द्रस्य पद्माकरनामा प्रधाननरः श्री' अण१५ हिलपत्तनं' गतः । तत्र सरस्तटे रजकक्षालितायां शाटिकार्या केतक्यामिव मधुकरकुलं निलीयमानं दृष्ट्वा विस्मितोऽप्राक्षीद् रज. कम् - यस्या युवतेरियं शाटी तां मे दर्शय । तस्य हि मन्त्रिणस्तत्पद्मिनीत्वे निर्णयस्थं मनः । रजकेन सायं गत्वा तस्मै तद्गृहं नीत्वा तामर्पयित्वा तत्स्वामिनी सूहवदेविनाम्नी शालापतिपत्नी २० विधवा यौवनस्था स्वरूपा दर्शिता । तां श्रीकुमारपालराजपार्श्वादुपरोध्य तद्गृहानीत्या सोमनाथयात्रां कृत्वा 'कास' गतः । तां पद्मिनीं जयन्तचन्द्र योगिनीमकरोत् । सूहवदेविरिति ख्यातिमगात् । सा च सगर्वा विदुषीति कृत्वा 'कलाभारती 'ति ४ १ अनुष्टुप् । २ सूत्रसम्बन्धे इति पक्षान्तरे । ३ पुष्पाणाम् इति पक्षान्तरे । अनुष्टुप् । ५ क - 'स्वस्वगृहेषु' ६ घ 'प्रागदत्' । ७ शिखरिणी । ८ खश-ध'लखिरे' १९ ग-'प्राक्षद्' | 1
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy