SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रबन्धे ९ श्रीबम्पभविसूरि | एनं गृहमा गच्छत । रक्षत जीववत् । मा स्माहं भवत्सु सत्सु निष्पुत्रोऽभूवम् इति । तेऽप्यागच्छन्, दुन्दुकमनमन् । उत्सवम'भागिनेयं भोजं गृहीत्वा " पाडलीपुत्र' मगमन् । तत्र नमपीपठन् । अलीललन् । शास्त्राभ्यासमचीकरन् । जीधवदमंसत । तत्र ५ तस्य पश्चान्दी दिनैः कतिभिरप्यूनाऽतिक्रामति स्म । कण्टिका दुन्दुका कथयति स्म - देव ! पुत्ररूपस्ते शत्रुर्मातृशाले वर्धते । नखच्छेद्यं पर्शुच्छेद्यं मा कुरु । अत्रानीय च्छन्नं यमसदनं नथ । राजाऽऽह- सत्यमेतत् । ततो दूतमुखेन दुन्दुको भोजं तन्मातुलपार्श्वेऽयाचीत् । ते भोजं नार्पयन्ति । पुनः पुनः स्वान् दूतान् १० दुन्दुकः प्रहिणोति । भोजमातुला: प्राहु:- राजन् ! वयं तव भावं विद्यः, नार्पयाम एवैनम् । धर्मपात्रमसौ । अन्योऽपि शरणागतो रक्ष्यः क्षत्रियैः, किं पुनरादृक् भगिनीपुत्रः ? । बलात्कारं बूषे चेद् युद्धाय प्रगुणीभूयागच्छेः । भगिनीपतये चमत्कारं दर्शयि I ष्यामः । तद् दूतैरागत्योक्तम् । दुन्दुकः कुपितोऽपि तान् हन्तुं न १५ क्षमः । भोजोऽपि तैः पितुर्दुष्टत्वं ज्ञापितः कवचहर उपपितृ नैति । ततो दुन्दुकेन बप्पभट्टिसूरयः प्रार्थिताः - यूयं गत्वा भोज सुतमनुनीयानयत मानयत मामू । अनिच्छन्तोऽपि तत्सैनिकैः सह 'पाडली पुत्र' चेलुः । अर्धमार्ग सम्प्राप्तः स्थित्वा विमुष्टं ज्ञानदेशाभोजस्तावन्मम वचसा नृपसमीपं नैष्यति । आनीयते वा यथा २० तथा तदाऽऽनीतोऽपि पित्रा हन्यसे । बाग्लङ्घने राजाऽपि क्रुद्धो मां हन्ति । तस्मादितो व्याघ्र इतो दुस्तटी इति न्यायः प्राप्तः । समाप्तं च ममायुः, दिवसद्वयमवशिष्यते, तस्मादनशनं शरणम् । इति विमृश्यासन्नस्थयतयो भाषिता:- नन्नसूरि गोविन्दाचार्यो K ग - 'रक्षति' । २ ख - घ - भाग्य | ग-घ - 'पाटली० । ४ क-ख - 'अलीलपन् '। ५ 'मोसाळ' इति भाषायाम् । ६ ग - तन्मातुलेभ्योऽयाचीत्' ।७ ग 'मनुनीयानयततमाम् ' ८ ग 'घ' पाटली० । ९ग-'दृष्टया' |
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy