SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिमवन्धे [९ श्रीवप्पभटिसूरिलेप्यमयबिम्बचतुष्टयं च कारितम्- एकं 'मथुरा'याम्, एकं 'मोढेरवसाहका' या मणहिल्लपुरे', एकं गोपगिरौ' एवं 'सतारकाक्ष'पुरे । तत्र तत्र प्रतिष्ठाः प्रभावनाश्च कारिताः । अन्यदपि बह्वकारि । ___अथ आमगृहे पुत्रो जातः सुलक्षणः । सोत्सवं तस्य दुन्दुक इति नाम प्रतिष्ठितम् । सोऽपि युवत्वे तैस्तैर्गुणैः पितृवत् पप्रथे । एकदा समुद्रसेनभूपाधिष्ठितं राजगिरि नामदुर्ग आमो रुरोध । अमितं सैन्यं कुद्दालादिसामग्री भैरवादयो यन्त्रभेदाः कल्पिताः । प्राकारोऽतिबलेन प्रपातयितुमारेभे । नापतत् । १० आमः खिन्नः । तेन सूरयः पृष्टाः- अयमभ्रंलिहः प्राकारः कदाऽस्माभिहिष्यते ? । सूरिभिर्बभाषे- तव पुत्रपुत्रो भोजनामाऽमुं प्राकारं दृक्पातमात्रेण पातयिष्यति, अन्यो नैव । आमस्त्यक्तारम्भः प्राकाराद् बहिादशाब्दीमस्थात् । ३७देशमात्मसान्चके । दुन्दकगृहे पुत्रो जातः । तस्य 'भोज'नाम ददे । सञ्जातमात्रः पर्यङ्किकान्यस्तो दुर्गद्वाराममानीतः प्रधानैः । तदृक्प्रपातमात्रेण प्राकारः खण्डशो विशीर्णः । समुद्रसेनभूपो धर्मद्वारे निःसृतः । आमो ‘राजगिरि मविक्षत् । प्रजाभारो न कृतः । अक्रूरा हि जैना महर्षयः राजर्षयश्च दयापरास्ते । रात्रौ आमाप 'राजगिर्य'धिष्ठात्रा भाणितम्-- राजन् ! यदि त्वमत्र स्थास्थसि तदा तव लोकं हनिष्यामि । आमः प्रत्यूचे- लोकेन हतेन किं ते फलम् ? । यदि हनिष्यसि तदा मामेव घातय । एतनिर्भयमामवचः श्रुत्वा तुष्टो व्यन्तर उवाच- प्रीतोऽस्मि ते सत्त्वेन, याचस्व किश्चित् । राज्ञोचे- न किमपि न्यून मे, केवलं कदा मे मृत्युः ब्रूहीदम् । व्यन्तर उवाच- षण्मासावशेषे आयुषि स्वयमेत्य वक्ष्यामि । २० ३ ग-सूरिभिर्वभण' । १ 'तारकाख्यपुरे'। २ क-ख-घ 'क्लप्ताः'। ४ ग-पातयिष्यते' | ५क-'धर्मद्वारेण' ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy