________________
सिद्धान्तलक्षणतत्वालोकः ।
गुणेऽपि सस्वाद्व्यं विशिष्टसत्त्वादित्यत्राव्याप्तिरिति वाच्यं हेतुता. घच्छेदकगतरूपे स्वावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकताकनिरूपकताकाधिकरणतावद्यनिष्ठविशेष्यतानिरूपितप्रमीयहेतुतावच्छे. दकताकनिरूपकताकाधिकरणतायद्यनिष्ठविशेष्यतानिरूपितप्रमीयहे. तुतावच्छेदकसम्बन्धावच्छिन्नप्रकारतावच्छेदकतात्वावच्छिन्नपर्याप्त्यः नुयोगितावच्छेदकत्वस्य विवक्षितत्वात उपलक्षक धर्मस्य प्रकारतानवच्छेदकत्वाच नच गुणकर्मान्यत्वसत्वयोः समूहालम्बनबोधस्य गुणकर्मान्यत्वोपलक्षितसत्त्वावगाहिबोधस्य च किम्वैलक्ष. ण्यमिति वाच्यं गुणकमान्यस्वप्रकारतानिरूपितविशेष्यत्वाभिन्नसत्यप्रकारताकत्वतदभावयोरेव वैलक्षण्यप्रयोजकत्वात् पतेन धूम. त्वस्य संयोगसम्बन्धावच्छिन्नाधिकरणतामात्रानवच्छेदकत्वस्य व्य. वस्थापितत्वेन स्वाश्रयाश्रयाधिकरणत्वस्यैव निवेशनीयतया द्रव्य विशिष्टसत्त्वादित्यत्रानुपदोक्ताव्याप्ते निस्तार इति निरस्तम् वि. शेष्यतानिरूपितत्वञ्च विशेष्यतानिष्ठनिरूप्यतानिरूपितप्रकारतात्वा वच्छिन्ननिरूपकतावत्वन्नातः प्रमेयत्ववन्महानसीयवह्निविषकज्ञानवद्वह्निमानितिविषयितया वह्नयवगाहिवह्नयंशे तादृशज्ञानमुपलक्षणत. यावगाहमानज्ञान मादाय महानसीयवह्निविवयकशानस्य हेत्वधिकरणत्वप्रसङ्गदति चेन्न महानसीयवह्निविषयकवनिविषयकज्ञानान्यतरद्वह्निमदितिज्ञानमादाय महानलीयवह्निविषयकशानस्य हेत्वधिकरणत्वापत्तेः नच विशेष्यतायामुभयावृत्तिधर्मावच्छिन्नत्वं प्रकारतायाम्वा विशेष्यतावच्छेदकव्यापकविधेयप्रतियोगिकसंसर्गावच्छिन्नत्वम्वा वि. शेषणं तथा च न दोषइति वाच्यं यादृशसाध्यहेतुकस्थले हेतुम ताशाननोभयावृत्तिधर्मावच्छेदेन नवाऽवच्छेदकावच्छेदेन चोत्पन्ना न्तत्राव्याप्त्यापत्तेरिति यत्तु वह्निशानत्वसाध्यकविषयितास्वरूपा. न्यतरसम्बन्धेन वह्निहेतुकस्थले महानसीयवाहविषयकज्ञानं विषयितास्वरूपान्यतरसम्वन्धेन प्रमेयविशिष्टवदितिज्ञानीयप्रमेयावच्छिन्नप्रकारतामादायाव्याप्तिः तदवच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वस्य तत्तवित्वैकत्वादिष्वेव सत्त्वादधिकरणतापक्षे च प्रमेयावच्छिन्नाधिकरणत्वाप्रसिया न दोष. इति तन प्रमेयावच्छिन्नप्रकारतावच्छेदकतात्वावच्छिन्नपर्याप्त्यनु. योगितावच्छेदकत्वस्य प्रमेयत्व एव कल्पनात् तादृशप्रकारता.
"Aho Shrutgyanam"