SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ७४ सिद्धान्तलक्षणतत्त्वालोकः । च्छिन्नसम्बन्धित्वमादाय विषयितया वह्निहेतुके महानसीयवहिविः षयकज्ञानादेरधिकरणत्वप्रसंगात् महाकालानुयोगिककालिकेन घ. टादिहेतुकस्थले महाकाले ताशसम्बन्धित्वाभावस्यासत्वेन महा. कालस्य हेत्वधिकरणत्वानुपपत्तेः तद्वारणायायासश्च गुरुत्वाद्विफला यासंकरिष्यतीत्यलन्तेनेति ध्येयम् ननु व्यापकतावच्छेदकत्वरूपाभा. वप्रतियोगियावच्छेदकत्वेन हेतुरेयोपादेयो नतु हेत्वधिकरणत्वं त. थाच हेत्वधिकरणत्वस्य लक्षणाघटकतया तद्विचारोऽर्थान्तरग्रस्त इति चेद्यदि विशिष्टसत्तावानितिप्रतीतेर्विशिष्टसत्त्वस्य गुणे सत्त. या तत्राप्रामाण्याय विशिष्टसत्तात्वावच्छिन्नाधिकरणत्वावगाहित्वे विशिष्टसतावान्नतिप्रतीतेरपि विशिष्टसत्तात्वावच्छिन्नाधिकरणवावच्छिन्नभेदावगाहित्वन्तदा विशिष्टसत्तावत्यभावप्रतियोगितानव. च्छेदकमिति प्रतीतरेपि विशिष्टसत्ताधिकरणत्वावगाहित्वमेवति नोक्तप्रतीतिसिद्धाभावस्य हेतुतावच्छेदकावच्छिन्नावच्छेदकताकप्र. तियोगिताकाभावत्वमिति विशिष्ट्रसत्वे हेतावव्याप्तन तस्य लक्षणगटकता यद्यपि विशिष्ठसत्ता नास्तीतिप्रतीतो विशिष्टसत्ताभावस्य भासमानत्वेऽपि तस्य प्रतियोगितावच्छेदकावच्छिन्नाधिकरणतया वित रोधित्वकल्पनाहुणे प्रमात्वस्योक्तप्रतीतेरिव विशिष्टसत्तावान्नेतिप्रतीतपि विशिष्टप्सत्तात्वावच्छिन्नावच्छेदकताकप्रतियोगिताकभेदा. वगाहित्वेऽपि तस्य प्रतियोगितावच्छेदकतावच्छेदकीभूतधर्मावच्छि. प्राधिकरणतया विरोधित्वस्वीकारात्प्रमात्वं गुणेऽप्युपपद्यत इति विषमोदृष्टान्तस्तथापि विशिष्टसत्तावद्वत्त्यभावप्रतियोगितावच्छेदकभेदस्य तादृशावच्छेदकतात्वावच्छिन्नाधिकरणतयैव विरोधित्वेनतत्कौटो विशिष्टसत्तात्वावच्छिन्नाधिकरणत्वस्याप्रविष्टत्वात्प्रविष्टस्य विशिष्टसत्वस्य गुणसाधारणत्वादुक्ताधिकरणत्वस्य द्रव्यत्वत्वे स. सयाऽव्याप्तिर्दुरुद्धरैव यत्र विशिष्टसत्त्वं साक्षादवछेदकं तत्रैव हि विरोधनिरूपकतया तदधिकरणत्वं व्यवस्थितं प्रकृते च तादृशावच्छेदकत्वस्यैव प्रतियोगितावच्छेदकत्वेन तदवच्छेदकावच्छिन्नाधिक. रणताया एव विरोधनिरूपकत्वं तत्र च विशिष्टसत्तात्वावच्छिन्नाधिकरणता कथश्चिनान्तर्मवतीति सूक्ष्ममीक्षणीयम् केचित्वभाववुद्धेविशिष्टवैशिष्ट्यावगाहित्वेन धूममवद्वत्त्यभावप्रतियोगितावच्छे. दकत्वन्नास्तीतिवुद्धे—मत्वविशिष्टवैशिष्ट्यावगाहितया भ्रमत्वापत्या "Aho Shrutgyanam
SR No.009520
Book TitleSiddhanta Lakshan Tattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherVidya Vilas Yantralaya
Publication Year1925
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy