SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ३४ सिद्धान्तलक्षणतत्वालोकः । गित्वस्य साध्यवहृत्यभावीयत्वधर्म्मविशिष्टत्वयोस्सस्वेन गोत्ववान्का लत्वादित्यत्राव्याप्तेरिति, अत्र च कालोघटवान्महाकालत्वादित्यत्रा व्याप्तेर्वारणाय प्रतियोगितावच्छेदकसाध्यतावच्छेदकान्यतरसम्बन्धा वच्छिन्नत्वस्य प्रतियोगितावच्छेदकावच्छिन्नाधिकरणत्व विशेषणत्वे निरुकोभयाभावात्मकप्रतियोगिवैयधिकरण्यघटितलक्षणविवक्षायां न कोपि दोषः नच स्ववृत्तिभेदीयमहाकालत्वावच्छिन्न प्रतियोगितासम्बन्धेन घटसाध्यकमहाकालत्वे सद्धेती का गतिरिति वाच्यं घटानुयोगिककालिक प्रतियोगित्वादिसम्बन्धावच्छिन्नप्रतियोगिताक महाकालाभावमादाय लक्षणसम्भवात् यदि बिशेषरूपेण न संसर्ग· त्वादिः प्रतियोगित्वादीनाम्वृत्त्यनियामकतया न प्रतियोगितावच्छेदकत्वमित्युच्यते तदा त्वयापि सम्बन्धधम्मिक प्रतियोगिताधमिकोभयाभावघटितकल्पोऽनुसरणीयस्तत्रैवोक्तरीत्यनुसरणे विफलमेव प्र. तिभात्युभयानवच्छिन्नत्वादिकमिति चिन्त्यम् परन्त्वत्र न पश्यामो दूषणवेलेशमपि दीधितिव्याख्या कर्त्तुर्जगदीशस्य यदुक्तरीत्यनुसरणे तद्ग्रन्थविरोधस्य भवति पुरःप्राप्तिः नापि दीधितिकारस्य मार्गमात्रपदर्शकत्वात्तस्य प्रतियोगितावच्छेदकत्वघटकावच्छेदकतायाः पर्य्याप्तिविवक्षायान्तत्तात्पर्य्यस्य वक्तुं शक्यत्वात् जगदीशेन चैकत्वादेः पर्याप्त्यनभ्युपगमे शिष्यबुद्धिवैशद्याय कथञ्चिदुमयानवच्छि अत्वलरणे दर्शिततयाऽतिसूक्ष्मापराधान्वेषणेऽपि नापराध्यति सोध्याशयविदामिति मन्तव्यम् परे तु रूपत्ववदभावमादाय दोषासम्भवादवच्छेदकतायां साध्यतावच्छेदकताघटकसम्बन्धावच्छिन्नत्वन्न नि. वेशनीयमिति यदुक्तं तन्न युक्तं स्ववृत्तिवाच्यत्ववत्त्वसमवायोभय• सम्बन्धेन वह्रित्वविशिष्टसाध्यकसद्धेतौ प्रतियोगिव्यधिकरणाभावाप्रसिद्धया संसर्गतावच्छेदकपर्थ्यातेर्निवेशनीयतया वह्नित्वप्रतियोगिकसमवायेन वह्नित्वविशिष्टसाध्यकेऽव्याप्त्या परिध्कृतस्य तस्याः वश्यनिवेशनीयत्वात् एवं च तदनिवेशप्रयुक्तलाघवन्दूरापेतं सामान्यधर्म्मावच्छिन्नाधिकरणत्वास्वीकारे साध्यतावच्छेदकवृत्यभावीय. प्रतियोगितानिरूपितपरम्परावच्छेदकत्वस्यैव साध्यतावच्छेदकाव च्छिन्नाधिकरणतारूपत्वं वाच्य मभावश्च स्वाश्रयवन्निष्ठाधिकरणतानवच्छेदकत्वाधिकरणतावच्छेदकत्वोभयाभावरूपस्तथा चक्क प्रति योगिताविशेषणोभयाभावापेक्षया लाघवम् एवमेकत्वादेः पर्याप्त्य "Aho Shrutgyanam"
SR No.009520
Book TitleSiddhanta Lakshan Tattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherVidya Vilas Yantralaya
Publication Year1925
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy