SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ विविधतीर्थकल्पे १५. अयोध्यासमीपे रत्नवाहपुरे नागमहितः श्रीधर्मनाथः । १६. किष्किन्धायां कायां पाताललंकायां त्रिकूटगिरी श्रीशान्तिनाथः । १७-१८. गङ्गा-यमुनयोर्वेणी संगमे श्री कुंथुनाथारनाथौ । १९. श्रीपर्वते मल्लिनाथः । २०. भृगुपत्तने अनर्घ्यरलचूडः श्रीमुनिसुव्रतः । प्रतिष्ठानपुरे अयोध्यायां विन्ध्याचले माणिक्यदंडके मुनिसुव्रतः । २१. अयोध्यायां मोक्षतीर्थे नमिः । २२. शौर्यपुरे शङ्खजिनालये पाटलानगरे मथुरायां द्वारकायां सिंहपुरे स्तम्भतीर्थे पाताललिङ्गाभिधः श्रीनेमिनाथः । २३. अजागृहे नवनिधिः श्रीपार्श्वनाथः । स्तंभनके भवभयहरः । फलवर्द्धिकायां विश्वकल्पलताभिधः । करहेटके उपसर्गहरः | अहिच्छत्रायां त्रिभुवनभानुः । कलिकुण्डे नागहदे च श्रीपार्श्वनाथः । कुक्कुटेश्वरे विश्वगजः । माहेन्द्रपर्वते छायापार्श्वनाथः | ओंकारपर्वते सहस्रफणी पार्श्वनाथः । वाराणस्यां दण्डखाते भव्यपुष्करावर्तकः । महाकालान्तरा पातालचक्रवर्ती । मथुरायां कल्पद्रुमः । चम्पायामशोकः । मलयगिरौ श्रीपार्श्वः । 5 10 ८६ 15 २४. श्रीपर्वते घण्टाकर्णमहावीरः । विन्ध्याद्री श्रीगुप्तः ' | हिमाचले छायापार्श्वो मत्राधिराजः श्रीस्फुलिङ्गः । श्रीपुरे अन्तरिक्षः श्रीपार्श्वः । 'डाकुली - भीमेश्वरे श्रीपार्श्वनाथः । भाइल' खामिगढे देवाधिदेवः | श्रीरामशयने प्रद्योतकारि श्रीवर्धमानः । मोढेरे वायडे खेडे' नाणके पट्टयां मतुण्डके मुण्डस्थले श्रीमालपत्तने उपवेशपुरे कुण्डग्रामे सत्यपुरे टङ्कायां गङ्गाहदे सरस्थाने वीतभये चम्पायां 'अपापायां पुंड्रपर्वते नन्दिवर्द्धन - कोटि भूमौ वीरः । वैभाराद्रौ राजगृहे कैलासे श्रीरोहणाद्री 29 श्रीमहावीरः । 25 अष्टापदे चतुर्विंशतिस्तीर्थकराः । संमेतशैले विंशतिर्जिनाः । हेमसरोवरे द्वासप्ततिजिनालयः । कोटिशिला सिद्धि क्षेत्रम् । १ ॥ इति जैन सिद्धानां तीर्थानां नामपद्धतेः । सङ्ग्रहोऽयं स्फुटीचक्रे श्रीजिनप्रभसूरिणा ॥ *किञ्चिदत्र यथा दृष्टं किञ्चिच्चापि यथा श्रुतम् । स्वतीर्थनामधेयानां पद्धतौ लिखितं मया ॥ २ ॥ ॥ समाप्तस्तीर्थनामधेय संग्रहकल्पः ॥ ॥ प्र० ४९, अ० २१ ॥ 1 P विहाय नास्त्यन्यत्र । 2 B श्री गुप्तिः । 3 P व्याकुली'; Pe 'डाकुली चन्द्रावत्यां मंदिरमुकुट भीमेश्वरे' एतादृशः पाठः । 4 Pa भालय° । 5 P ° कारितः । 6 B Pa नास्ति 'खेडे' । 7 Pa विहाय 'अपापायां' नास्ति । 8P Pa सिद्ध । * इदं पद्यं नास्ति P आदर्शे । P इति सर्वचतुरशीति महातीर्थनामसङ्ग्रह कल्पः ।
SR No.009519
Book TitleVividh Tirth Kalpa
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Gyanpith
Publication Year1934
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy