SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ ABHANAKAJAGANNATHA One thousand, three hun dred and twenty two (1322) proverbs conceived afresh in Samskrta. आभाणकानां प्रपञ्च Author: S.Jagannatha, free thinker. Typesetting, layout work and line drawings : Author. Cellphone: 9972016425 © S.Jagannatha Anybody may take this work for paper presentations in seminars/conferences/symposiums with proper acknowledgement. Any body may take this work for Ph.D., with proper acknowledgement. Anybody may discuss the work in any forum. NOBODY IS PERMITTED TO TRANSLATE THE WHOLE WORK IN ANY LANGUAGE. AUTHOR HAS PLANNED TO TRANSLATE IT INTO ENGLISH. jgrantha@gmail.com Price: Interest in modern Samskrta literature, making the Abhäņakas by heart, using them in conversation as well writing. Jagannatha jgrantha@gmail.com अयमाभाणकजगन्नाथो मया नूतनं सृष्टानाम् आभाणकानां संकलनम्। लौकिकभाषाव्यवहारीयस्य शोभनस्य बितानस्य १.प्रहेलिका: २.वागूढयः (लोकोक्तयो वा) ३.सुभाषितानि तथा ४.आभाणकाश्च चतुराधारस्तम्भायन्ते। प्रहेलिकाविचारस्य प्रकृतग्रन्थबहिर्भूतत्वादन्यत् त्रयं किञ्चिदत्र प्रस्तूयते। लोकोक्ति-सूक्ति-सुभाषितादिसंज्ञाभिलप्यानि वाक्यकदम्बकान्येव आभाणका इति प्रायोवादः । वस्तुतस्तु संभाषणेषु या नैसर्गिकी छटा वर्तते, सा लोकोक्तिपदाभिलप्या यस्या इङ्गीष भाषायां idiom इति संज्ञा । केचन जयदेवादय आलङ्कारिका लोकोक्तिम् अलङ्कारं परिगणयन्ति। यथा पदेषु रूखत्वं तथा वाक्येष्वपि रूढत्वम् । एकस्यैव पदस्य यथा रूढिवशादनेकार्थप्रदत्वं तथा वाक्यानामपि रूढिवशादेवानेकार्थप्रदत्वम् । यथा “नेत्रे निमील्य समयाकरोति"इत्यादिषु वाक्येषु चिन्ताराहित्यं, नत्रे निमील्य हस्ताक्षरं ददाति इत्यादिषु वाक्येषु विचाराभावः, “मम नेत्रनिमीलनानन्तरं तब का गतिर्भविता” इत्यादिषु वाक्येषु मरणं च द्योत्यत इति सर्वसम्मतम् । केषुचन अलुक्समासेष्वपि स्थितिरीदृश्येव । “देवानांप्रिय” इत्यत्र यथा। रूढवागिति वा वायूढिरिति वा वाक्यानाम् अमीषां संस्कृते संज्ञा भवितुमर्हति। सूक्तिसुभाषितादीनां लोकोक्त्यर्हेभ्यो भवनेभ्यो भिन्नेष्वेव भवनेषु प्रवेशयोग्यत्वम् । अभिधालक्षणान्यतरव्यापारवन्ति सुभाषितानि यत्र सुष्ठुविचारत्वेन रचयित्रा परिगणितस्य वस्तुनः सोदाहरणं निरुदाहरणं वा बोधनं प्रधानम्। पदसमुदयशक्तिमती लोकोक्तिः। लोकान् लोकव्यवहारांश्च आभाणका वक्रया दृशाऽपि कटाक्षयन्ति, सुभाषितानीव ऋज्या दृष्ट्याऽपि वीक्षन्ते । इत्थम् आभाणकानां सुभाषितानां च सत्यामपि परस्परेण मैत्र्यां कुसुमस्येव परिमलं सुभाषितानां, हिङ्गन इवोगो गन्ध आभाणकाना
SR No.009517
Book TitleAbhanakajagannatha
Original Sutra AuthorN/A
AuthorJagannatha
PublisherJagannath Ambaram
Publication Year
Total Pages73
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size532 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy