SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ आभाणकजगन्नाथ आभाणकजगन्नाथ: १९. लवणस्य लोपे वारिधिना वैरम्। २०. वस्त्रसौन्दर्यं किं विजानाति ग्राम्याश्व ? २१. वायुं विदारयितुं विविधान् व्यायामान् विदधाति। २२. शृगालेन शप्तः शैलः किं शीर्यते ? [७९३] ६३.धाष्यम् १. आक्रोशेन राक्षसेश्वरं प्रणामयते। २. गर्जनमेव दुर्बलानाम् अर्जनम्। ३. गलेन गर्जन्तं बिलेशयं दृष्ट्रा स्तम्बेरम स्विद्यति। ४. दण्डधारिणी पिपीलिका चण्डव्याघ्रं कम्पयते। देवताऽस्मि गलिता नभसोऽहं पावना मम समेऽपि विलासा। ६. नखे दर्शिते सुखेन सिद्धिः। ७. मड्डकाद् भीता लड्डुकं यच्छन्ति। ८. हुंकारेण लङ्केश्वरं किंकरं कुरुते। ६४.धूर्ता १. एकमलीकं सर्वं गप्पम्। २. कर्मपापिष्ठा धर्मदेवेन शपन्ते। ३. गप्पेश्वराणां सन्निधौ मिथ्यावाचां दासत्वम् । ६२.२०.दासेरका-गर्दभः । ६३.३.बिलेशयम्-मूषिकम् । स्तम्बेरम:-गजः । ६३.५.समेऽपि-सर्वेऽपि । ६३.७.मडकात्-अवनद्धवाद्यविशेषात्। ६४.१. अलीकम्-असत्यम्। चाणक्यचेतसो माणिक्यं वचनम् । दण्डवत् प्रणम्य दशार्धपूजां करोति। देवो वाचा पूर्वदेवश्च वृत्त्या। ७. देहं सुहृदो दयया दारयति। ८. धगधगायमाने परधामनि धान्यं निजं पिपक्षति । ९. पादयोः प्रणिपत्य पादाङ्गुलीश्छिनत्ति। १०. प्रणिपातं नाटयन् पाणिं गृहीत्वा पातयामास । ११. प्रतारकस्य वचने पलाण्डुरेवाग्रफलम्। १२. ब्रह्मज्ञानं न्यूनं, जिह्यं कर्म तु नोनम् । १३. भण्डेन भगवद्गीतोपदेशः। १४. भाषा श्लक्ष्णा भावः कुसृतिः। १५. मयूरवन्मनोहरो व्यंसकवद विश्वासध्वंसकः । मिथ्यामतिः सत्येन शपन् पटहं वादयति । १७. लोकोक्तिर्वा छेकोक्तिर्वा ? १८. लोकोद्धारं नटन् काकोदरो भेकान् भक्षयामास । १९. वक्रबुद्धिः शक्रं जयति ! २०. वरीयान् भण्डेषु दण्डोपाय। २१. वाक्चतुरो वा वागुरिको वा ? ६४.५.दशार्धपूजाम्-कपोले चपेटिकाम् । दशानाम्(लक्षणया दशाङ्गलीनाम्)अर्धपञ्च(लक्षणयकः करः)। भरटकप्रहसनाख्थे जैनग्रन्थे शब्दोऽयमस्तीति श्रूयते। ६४.६.पूर्वदेवः-दैत्यः । पूर्वदेवाः सुरद्विष इत्यमरः । ६४.८.पिपक्षति-पक्तुमिच्छति। ६४.११.प्रतारकस्य-वञ्चकस्य । ६४.१२.नोनम्-न+ ऊनम्। ६४.१४.श्लक्ष्णा-उधावचत्वहीना। कुसृतिः-वञ्चना । ६४.१५.व्यंसक-धूर्तः । ६४.१८.काकोदर-सर्पः। ६४.२१, वागुरिका-वागुरया (=मृगादिग्रहणार्थेन जालेन)मृगान् ग्रहीता व्याधः ।
SR No.009517
Book TitleAbhanakajagannatha
Original Sutra AuthorN/A
AuthorJagannatha
PublisherJagannath Ambaram
Publication Year
Total Pages73
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size532 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy