SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ आभाणकजगन्नाथः आभाणकजगन्नाथ: [४६-४७] ३. तिरुमलनायको वा गुरुखलनायको वा ? ४. दन्तिदुर्गस्याप्यन्तिमा दशा। दलपतिः खलपतिर्जातः। पुलिकेशिनं प्रजिहीर्षन् अवकेशी संवृत्तः । पुलिकेशिनं विरुध्य युद्ध्यन् हर्षवर्धनो हाहाचकार। ८. प्राकारं विलङ्ग्य शोकाकुलः संवृत्तः । ९. मयूरे दृष्टे महासिंहानामूरुकम्पः । ४६.३.तिरुमलनायक -एष राजा मधुरैनगरं ऊस्तवीये सप्तदशशतके शशास। तस्य सभाकविरेव प्रसिद्धो नीलकण्ठदीक्षितः नीलकण्ठदीक्षितेन दर्शितमार्गोऽप्येष क्रमेणाविनीत उद्धटश्चाभूत् । (शतावधानिना तत्रभवता डा.रा.गणेशेन कन्नडभाषायाम् अनूदितस्य शतकत्रयस्य पीठिका) ४६.४.दन्तिदुर्ग8-राष्ट्रकूटाख्यराजवंशस्थापकस्यास्य राज्ञी राज्यशासनावधिः प्राय: क्र.७३५-७५६ । चलुक्याधिपतिं पराजित्य महाराष्ट्रस्य कांश्चन भागान् तथा गुर्जरस्यापि कांश्चन भागानाक्रान्तवान् । परन्तु अकालमृत्युना मृतः। ४६.५.दलम्-सैन्यभागः। ४६.६. प्रजिहीर्षन्-प्रहर्तुमिच्छन् । अवकेशी-मुण्डितमुण्डः । उत्तरापथेश्वरो हर्षवर्धनो दक्षिणापथेश्वरं पुलिकेशिनं जेतुं प्रायतत, विफलश्च बभूव । तस्मादेव कारणाद् हर्षचरिते बाणभट्टस्तद्वृत्तान्तं परिहरन् तत्समाप्ति नैवाकरोत् । कादम्बर्या तु जरद्रविडधार्मिकवर्णनव्याजेन पुलिकेशिनं सोल्लुण्ठनं कटाक्षितवान् यत्र जरद्-द्रविडधार्मिको दक्षिणापथेश्वरो बुभूपूर्दुर्गा प्रार्थयते! ४६.८.प्राकार-दुर्गम् । कदाचिद् दुर्गलपनं पराजयहेतुर्भवति। ४६.९.मयूरे-कदम्बवंशस्थापके मयूरवर्मणि । मूलतो ब्राह्मण सन् मयूरशर्मा काञ्च्यां विद्याभ्यासकाले क्षत्रियेण केनाप्यपमानित: सन् क्रुद्धः क्षात्रं धर्ममवलम्ब्य राजा बभूव । मयूरशर्मकुटुम्बवर्गीयाणां गृहस्य समीप एव कोऽपि कदम्बवृक्ष आसीत्। ............ १०. शर्म वाऽस्तु वर्म वाऽस्तु धर्मं तु पालयतु। ११. श्रीपुरुष एव भूपुरुषः। ४७.रामायणम् १. अच्छे स्वान्ते पुच्छेनापि सिद्धिः। २. अधिकं पापं प्रचुरविलापम्। अध्वानं वीक्ष्य निर्दोषमात्मा गर्ने निपात्यते। ४. आर्ये भक्ति कार्ये रक्तिः । कुम्भकर्णे जागरितेऽपि दम्भवान् दशकण्ठो न जागरितः। ६. क्षयं प्राप्तुं स्वयं पतन्तं श्रयन्ति । ७. डिण्डिमो नर्दति, प्रासस्तु प्रहरति । ८. दृष्टा दग्ध्वा निवृत्तः। .....तस्मादेते कदम्बवंश्या इत्यात्मानं ख्यापयन्ति स्मेति केनचित् शासनेन ज्ञायते । कर्णाटके राजभाषात्वसिंहासने संस्कृतभाषाया: पट्टाभिषेक इदंप्रथमतया प्रायश एतेषामेव समयेऽभूत् । ४६.१०,शर्म वाऽस्तु वर्म वास्तु-मयूरशर्मकालान्तरं रचितेषु केषुचन शासनेषु मयूरशर्मणः प्रस्तावो मयूरवर्मेत्यस्ति(तस्य क्षत्रोचितधर्मग्रहणात्)।४६.११.श्रीपुरुष-गङ्गवंशस्य राजा। द्वितीयविक्रमादित्ये काञ्चीमाक्रममाणे तस्य साहाय्यमेष कृतवान् । अस्थायं विशेष:-पट्टाभिषेकात् प्रागेव काश्चन प्रान्तानेष शशास (प्रायः प्रान्ताधिकारी सन्)। स्थाननाम न मुख्यं परन्तु कार्य मुख्यमित्यर्थे रचितोऽयमाभाणकः । ४७.४.रक्ति:-प्रीतिः। ४७.७.प्रास:-आयुधविशेषः । ४७.८.सुन्दरकाण्डस्य सारसंग्रहोऽयम् । हनूमत एव सुन्दरकाण्डे प्राधान्यादेवं पदत्रयेण हनुमद्विषयकेण तत्सारोऽत्र दर्शितः।
SR No.009517
Book TitleAbhanakajagannatha
Original Sutra AuthorN/A
AuthorJagannatha
PublisherJagannath Ambaram
Publication Year
Total Pages73
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size532 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy