SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ [१३-१३] आभाणकजगन्नाथः ३१. निःश्रेणिकया किं वृक्षविहारविदग्धस्य वानरस्य ? ३२. निकृष्टे स्वकीये स्वर्णे नाडिन्धमा न निन्दनीयाः । ३३. निरुत्साहानाम् उरुगायः पन्थाः शय्या | ३४. निर्घृणानामपि नाडी स्पन्दते । ३५. निशितबुद्धिं शास्त्राणि नमस्कुर्वन्ति । ३६. निशिताऽपि छुरिका न्यग्रोधं न छिनत्ति । ३७. पङ्केऽवलोकिते पङ्कजमवलोक्यते । ३८. पटच्चरे गतो मानः पट्टचीरदानादपि न निवर्तते । ३९. परशुविद्या पामरहृद्या । ४०. पर्पटीमुत्पाट्य पर्वतमुत्पाटय । ४१. पीडायामपि पन्थानं पश्यन्ति पटुबुद्धयः । ४२. प्रत्नं भाषितं शस्तं प्रत्यग्रं भूषितं शस्तम् । ४३. प्रत्यग्रहरिणापेक्षया पुराणः शशको वरम् । ४४. प्रसरन्तं पूतिगन्धम् अररं न प्रतिरुणद्धि । ४५. प्राप्तमेव पुरु पुण्यम् । ४६. फाले ताडिते फलं न खात् पतति । ४७. बुद्ध्यनुसारं भक्षय मा जिह्वानुसारम् । ४८. भूते सदा वर्तमानाः प्रेता भवन्ति । ४९. मधु न स्रवति मरिचफलात् । १३.३३.उरुगायः-श्रेष्ठैर्गेयः स्तुत्य इति यावत् । वैदिकोऽयं शब्दः । १३.३८ पटच्चरे- जीर्णवस्वे । १३.४२. प्रत्नं- प्राचीनम् । प्रत्यग्रम्-नवीनम् । १३.४४.अररं-कपाटम् । १३.४५. पुरु-अधिकम् । १३.४६. फाले- ललाटे । खात्आकाशात् । १४ आभाणकजगन्नाथः ५०. मरणमेव मनुजानां शरणम् अन्तिमम् । ५१. महतां महान् क्लेशः । ५२. महाबलिनोऽपि कदाचिन्महाक्रोशं मुञ्चन्ति । ५३. महाभ्यासेन मायां मर्दयेत् । ५४. मुसलो हलं दृष्ट्वा मुखं साचीकरोति । ५५. मूषिकं जित्वा मृगाधिपं जय । ५६. यतोऽस्ति वृषावाक्, ततो न मृषावाक् । ५७. रथो न चलति रत्नगर्भा विना । ५८. राज्ञा गृहीता राराजन्ते । ५९. रोषवतामग्रे जोषमुपविश । ६०. लब्धमेव ललितम् । ६१. लोकोद्धारे शोकोऽनल्पः । ६२. वद सत्यं, वह कुणपम् । ६३. वर्म नास्ति धर्मदेवतायाः । ६४. वस्त्रशुद्धौ निर्णेजक एव निर्णेता । ६५. विदुरान्नीतिश्चतुराद् भीतिः । ६६. विश्वं वीक्ष्य विरोधं विजयस्व । ६७. व्याघ्रे तृणं खादति, वराहः किं करोतु ? ६८. शाखासु चङ्क्रमणं शाखामृगाणां प्रकृतिः । [१३-१३] १३.५४.साचीकरोति-वक्रीकरोति । १३.५६. वृषा वाक्-वीरवाणी । वैदिकोऽयं शब्दः । १३.५७. रत्नगर्भा - भूमिम् । १३.५९. जोषम् - गात्रसंयमपूर्वकम् । १३.६२. कुणपम्-शवम्। १३.६४ निर्णेजक:- रजकः । १५
SR No.009517
Book TitleAbhanakajagannatha
Original Sutra AuthorN/A
AuthorJagannatha
PublisherJagannath Ambaram
Publication Year
Total Pages73
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size532 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy