________________
योगदृष्टिसंग्रह
सदृष्टिद्वात्रिंशिका
१७३ हि सांपरायिककर्मक्षयः फलम्, इदानीं तु भवोपग्राहिकर्मक्षय इति ॥२९॥
कृतकृत्यो यथा रत्ननियोगाद्रलविद्भवेत् । तथायं धर्मसंन्यासविनियोगान्महामुनिः ॥३०॥
कृतकृत्य इति । यथा रत्नस्य नियोगात्-शुद्धदृष्ट्या यथेच्छव्यापाराद् वणिग् (रत्नविद्=) रत्नवाणिज्यकारी कृतकृत्यो भवेत् । तथायम् अधिकृतदृष्टिस्थो धर्मसंन्यासविनियोगात् द्वितीयापूर्वकरणे महामुनिः कृतकृत्यो भवति ॥३०॥
केवलश्रियमासाद्य सर्वलब्धिफलान्विताम् । परम्परार्थं सम्पाद्य ततो योगान्तमश्नुते ॥३१॥
केवलेति । केवलश्रियं केवलज्ञानलक्ष्मीम् आसाद्य प्राप्य सर्वलब्धि-फलान्वितां सौत्सुक्यनिवृत्त्या परम्परार्थं यथाभव्यं सम्यक्त्वादिलक्षणं सम्पाद्य ततो योगान्तं योगपर्यन्तम् अश्नुते प्राप्नोति ॥३१॥
तत्रायोगाद्योगमुख्याद्भवोपग्राहिकर्मणाम् ।
क्षयं कृत्वा प्रयात्युच्चैः परमानन्दमन्दिरम् ॥३२॥
तत्रेति । तत्र-योगान्ते शैलेश्यवस्थायां । अयोगाद्=अव्यापारात् योगमुख्यात् भवोपग्राहिणां कर्मणां क्षयं कृत्वा । उच्चैर्लोकान्ते परमानन्दमन्दिरं प्रयाति ॥३२॥
॥ इति सदृष्टिद्वात्रिंशिका ॥
આઠ દૃષ્ટિની સઝાય