SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ कुतर्कग्रहनिवृत्तिद्वात्रिंशिका १६१ दोषव्युत्पत्तिकैः अन्यैः अन्यथैव-असिद्धत्वादिनैव उपपाद्यते ॥३०॥ अभ्युच्चयमाहज्ञायेरन् हेतुवादेन पदार्था यद्यतीन्द्रियाः । कालेनैतावता प्राज्ञैः कृतः स्यात्तेषु निश्चयः ॥३१॥ सदृष्टिद्वात्रिंशिका ज्ञायेरन्निति । हेतुवादेन अनुमानवादेन । यदि अतीन्द्रिया धर्मादयः पदार्था ज्ञायेरन् । तदा एतावता कालेन प्राज्ञैः तार्किकैः, तेषु अतीन्द्रियेषु पदार्थेषु निश्चयः कृतः स्यात्, उत्तरोत्तरतर्कोपचयात् ॥३१॥ तत्कुतर्कग्रहस्त्याज्यो ददता दृष्टिमागमे । प्रायो धर्मा अपि त्याज्याः परमानन्दसम्पदि ॥३२॥ अनन्तरमवेद्यसंवेद्यपदजयात् कुतर्कनिवृत्तिर्भवति, सैव च विधेयेत्युक्तं, अथ तत्फलीभूताः सदृष्टिविवेचयन्नाह प्रत्याहारः स्थिरायां स्याद्दर्शनं नित्यमभ्रमम् । तथा निरतिचारायां सूक्ष्मबोधसमन्वितम् ॥१॥ प्रत्याहार इति । स्थिरायां दृष्टौ प्रत्याहारः स्याद् वक्ष्यमाणलक्षणः । तथा निरतिचारायां दर्शनं नित्यम् अप्रतिपाति । सातिचारायां तु प्रक्षीणनयनपटलोपद्रवस्य तदुत्कोपाद्यनवबोधकल्पमपि भवति, तथातिचारभावात्, रत्नप्रभायामिव धूल्यादेरुपद्रवः । अभ्रम भ्रमरहितम् । तथा सूक्ष्मबोधेन समन्वितम् ॥१॥ तदिति । तत् तस्मात् कुतर्कग्रहः शुष्कतर्काभिनिवेशः त्याज्यो दृष्टिमागमे ददता । परमानन्दसम्पदि=मोक्षसुखसम्पत्तौ प्रायौ धर्मा अपि= क्षायोपशमिकाः क्षान्त्यादयः त्याज्याः । ततः कुतर्कग्रहः सुतरां त्याज्य एव । क्वचिदपि ग्रहस्यासङ्गानुष्ठानप्रतिपन्थित्वेनाश्रेयस्त्वादिति भावः । क्षायिकव्यवच्छेदार्थं प्रायोग्रहणं । तदिदमुक्तं न चैतदेवं यत्तस्माच्छुष्कतर्कग्रहो महान् । मिथ्याभिमानहेतुत्वात्त्याज्य एव मुमुक्षुभिः ।। (यो. इ. स. १४७) ग्रहः सर्वत्र तत्त्वेन मुमुक्षूणामसङ्गतः । मुक्तौ धर्मा अपि प्रायस्त्यक्तव्याः किमनेन तत् ? ॥ इति । (यो. इ. स. १४८) ॥ कुतर्कग्रहनिवृत्तिद्वात्रिंशिका ॥ विषयासम्प्रयोगेऽन्तःस्वरूपानुकृतिः किल । प्रत्याहारो हृषीकाणामेतदायत्तताफलः ॥२॥ विषयेति । विषयाणां चक्षुरादिग्राह्याणां रूपादीनाम् असम्प्रयोगे तद्ग्रहणाभिमुख्यत्यागेन स्वरूपमात्रावस्थाने सति । अन्तःस्वरूपानकति:= चित्तनिरोधनिरोध्यतासम्पत्तिः किल । हृषीकाणां चक्षुरादीनामिन्द्रियाणां प्रत्याहारः । यत उक्तं "स्वविषयासम्प्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः"
SR No.009512
Book TitleYogadrushti Sangraha
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2003
Total Pages131
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy