SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ११४ योगावतारद्वात्रिंशिका 'सूक्ष्मविषयत्वं चालिङ्गपर्यवसानं' (पातं. १-४५) न क्वचिद्विद्यते, न वा कञ्चिल्लिङ्गति गमयतीत्यलिङ्गं प्रधानं तत्पर्यन्तमित्यर्थः । गुणानां हि परिणाम चत्वारि पर्वाणि विशिष्टलिङ्गं अविशिष्टलिङ्ग लिङ्गमात्रमलिङ्गं चेति । विशिष्टलिङ्ग भूतानि, अविशिष्टलिङ्गं तन्मात्रेन्द्रियाणि, लिङ्गमात्र=बुद्धिः, अलिङ्गं च प्रधानमिति । एताश्च समापत्तयः सम्प्रज्ञातरूपा एव । यदाह-"ता एव सबीजः समाधिरिति" (पातं. १-४६) सह बीजेनालम्बनेन वर्तत इति सबीजः सम्प्रज्ञात इत्यर्थः ॥११॥ इतरासां समापत्तीनां निर्विचारफलत्वान्निविचारायाः फलमाह योगदृष्टिसंग्रह तदुक्तं -"तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी" (पातं. १-५०) । तस्य निरोधतः सर्वासां चित्तवृत्तीनां स्वकारणे प्रविलयात् । संस्कारमात्रोदितवृत्तिलक्षणो असम्प्रज्ञातनामा समाधिः स्यात् । तदुक्तं- "तस्यापि निरोधे सर्ववृत्तिनिरोधान्निर्बीजः समाधिरिति (पातं. १-५१) ॥१३॥ विरामप्रत्ययाभ्यासान्नेति नेति निरन्तरात् । ततः संस्कारशेषाच्च कैवल्यमुपतिष्ठते ॥१४॥ अध्यात्मं निर्विचारत्ववैशारद्ये प्रसीदति । ऋतम्भरा ततः प्रज्ञा श्रुतानुमितितोऽधिका ॥१२॥ अध्यात्ममिति । निर्विचारत्वस्य चरमसमापत्तिलक्षणस्य वैशारो= प्रकृष्टाभ्यासवशेन नैर्मल्ये अध्यात्म शुद्धसत्त्वं प्रसीदति क्लेशवासनारहितस्थितिप्रवाहयोग्यं भवति यदुक्तं- "निर्विचारत्ववैशारोऽध्यात्मप्रसादः" (पातं. १-४७) ततःअध्यात्मप्रसादात् ऋतम्भरा प्रज्ञा भवति । ऋतं= सत्यमेव बिभर्ति, न कदाचिदपि विपर्ययेणाच्छाद्यते या सा ऋतम्भरा । तदुक्तं"ऋतम्भरा तत्र प्रज्ञा" (पातं. १-४८) । सा च श्रुतानुमितित आगमानुमानाभ्यां सामान्यविषयाभ्यां विशेषविषयत्वेन अधिका । यदाह- "श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वादिति" (पातं. १-४९) ॥१२॥ विरामेति । विरामो-वितर्कादिचिन्तात्यागः स एव प्रत्ययो विरामप्रत्ययस्तस्य अभ्यासः पौन:पुन्येन चेतसि निवेशनं ततः । नेति नेति निरन्तराद् अन्तरहितात्संस्कारशेषादुत्पन्ना तत: असम्प्रज्ञातसमाधेः । यत उक्तं"विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्य इति" (पातं. १-१८) । कैवल्यम् =आत्मनः स्वप्रतिष्ठत्वलक्षणम् उपतिष्ठते आविर्भवति ॥१४॥ तदेवमुक्तौ पराभिमतौ सभेदौ सोत्पत्तिक्रमौ च सम्प्रज्ञातासम्प्रज्ञाताख्यौ योगभेदौ, अथानयोर्यथासम्भवमवतारमाह सम्प्रज्ञातोऽवतरति ध्यानभेदेऽत्र तत्त्वतः । तात्त्विकी च समापत्ति त्मनो भाव्यतां विना ॥१५॥ सम्प्रज्ञात इति । अत्र सम्प्रज्ञातासम्प्रज्ञातयोर्योगभेदयोर्मध्ये सम्प्रज्ञातस्तत्त्वतो ध्यानभेदेऽवतरति स्थिराध्यवसानरूपत्वात्, अध्यात्मादिकमारम्भ्य ध्यानपर्यन्तं यथाप्रकर्षं सम्प्रज्ञातो विश्राम्यतीत्यर्थः । यदाह योगबिन्दुकृत् समाधिरेष एवान्यैः सम्प्रज्ञातोऽभिधीयते । सम्यक्प्रकर्षरूपेण वृत्त्यर्थज्ञानतस्तथा ॥ इति । (यो. बि. ४१९) एष एवाध्यात्मादियोगः तात्त्विकी निरुपचरिता च समापत्तिरात्मनो भाव्यतां भावनाविषयतां विना न घटते शुद्धस्याभाव्यत्वे विशिष्टस्यापि तज्जन्मा तत्त्वसंस्कारः संस्कारान्तरबाधकः । असम्प्रज्ञातनामा स्यात् समाधिस्तन्निरोधतः ॥१३॥ तज्जन्मेति । तत-ऋतम्भराप्रज्ञाया जन्म उत्पत्तिर्यस्य स तथा । तत्त्व संस्कार:=परमार्थविषयः संस्कार: संस्कारान्तरस्य स्वेतरस्य व्युत्थानजस्य समाधिजस्य वा संस्कारस्य बाधक: तन्निष्ठकार्यकरणशक्तिभङ्गकृदिति यावत् ।
SR No.009512
Book TitleYogadrushti Sangraha
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2003
Total Pages131
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy