SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ योगदृष्टिसमुच्चयः नैतद्विदस्त्वयोग्येभ्यो ददत्येनं तथापि तु । हरिभद्र इदं प्राह नैतेभ्यो देय आदरात् ॥२२६॥ योगदृष्टिसंग्रह नैतद्विदस्तु=आचार्याः, अयोग्येभ्यो अन्येभ्यो, ददति यच्छन्ति, एनं योगदृष्टिसमुच्चयाख्यं ग्रन्थम् । तथापि तु एवमपि व्यवस्थिते । हरिभद्रो ग्रन्थकृत्, इदं प्राह किमित्याह-नैतेभ्य: अयोग्येभ्यः, देयः अयं योगदृष्टिसमुच्चयः, आदरात्=आदरेण इदं प्राह ॥२२६॥ किमेतदेवमित्याह अवज्ञह कृताऽल्पाऽपि यदनाय जायते । अतस्तत्परिहाराऽर्थं न पुनर्भावदोषतः ॥२२७॥ अवज्ञेह-योगदृष्टिसमुच्चयाख्ये ग्रन्थे, कृताऽल्पापि स्वरूपेण । यद्= यस्मात् । अनर्थाय जायते महाविषयत्वेन । अतस्तत्परिहारार्थं न पुनर्भावदोषतः क्षुद्रतया हरिभद्र इदं प्राहेति ॥२२७॥ इत्थं चैतदङ्गीकर्तव्यम् । यत एवाहयोग्येभ्यस्तु प्रयत्नेन देयोऽयं विधिनाऽन्वितैः । मात्सर्यविरहेणोच्चैः श्रेयोविघ्नप्रशान्तये ॥२२८॥ योग्येभ्यस्तु श्रोतृभ्यः प्रयत्नेन उपयोगसारेण, देयोऽयं विधिना= श्रवणादिगोचरेण । अन्वितैर्युक्तैः, दोषोऽन्यथा प्रत्यवायसम्भवादित्याचार्याः । मात्सर्यविरहेण मात्सर्याभावेन, उच्चैः श्रेयोविघ्नप्रशान्तये पुण्यान्तरायप्रशान्त्यर्थमिति ॥२२८॥ ॥ समाप्तोऽयं योगदृष्टिसमुच्चयः ॥ ॥ कृतिः श्वेतभिक्षोराचार्यश्रीहरिभद्रस्येति ॥ ॥ सवृत्तिर्योगदृष्टिसमुच्चयः समाप्तः ॥ श्रीयशोयोगदृष्टिः
SR No.009512
Book TitleYogadrushti Sangraha
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2003
Total Pages131
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy