________________
योगदृष्टिसमुच्चयः
व्याधिमुक्तः पुमान् लोके यादृशस्तादृशो ह्ययम् । नाभावो न च नो मुक्तो व्याधिना व्याधितो न च ॥ १८७॥
व्याधिमुक्तो=व्याधिपरिक्षीणः पुमान् यादृशो भवतीति तादृशो ह्ययं=निर्वृतो, नाऽभावः=प्रध्यातदीपकल्पोपमो, न च नो मुक्तो व्याधिना= मुक्त एव भव्यत्वपरिक्षयेण, अव्याधितो न च पूर्वं तथातद्भावादिति ॥१८७॥ अमुमेवार्थं स्पष्टयन्नाह -
भव एव महाव्याधिर्जन्ममृत्युविकारवान् । विचित्रमोहजननस्तीव्ररागादिवेदनः ॥ १८८ ॥
७१
भवः =संसार एव महाव्याधिः । किंविशिष्ट इत्याह- जन्ममृत्युविकारवान् जराद्युपलक्षणमेतत् । विचित्रमोहनजननो मिथ्यात्वोदयभावेन तीव्ररागादिवेदनः स्त्र्याद्यभिष्वङ्गभावेन ॥१८८॥
मुख्योऽयमात्मनोऽनादिचित्रकर्मनिदानजः । तथाऽनुभवसिद्धत्वात्सर्वप्राणभृतामिति ॥ १८९॥
मुख्यो=निरुपचरितो, अयं = भवव्याधिः, आत्मनो= जीवस्य । किंभूत इत्याह-अनादिचित्रकर्मनिदानजः = द्रव्यभावभेदभिन्नकर्मबलोत्पन्न इत्यर्थः । कुत इत्याह- तथानुभवसिद्धत्वात् जन्माद्यनुभवेन, सर्वप्राणभृतामिति तिर्यक्प्रभृतीनामपि ॥ १८९ ॥
एतन्मुक्तश्च मुक्तोऽपि मुख्य एवोपपद्यते । जन्मादिदोषविगमात्तददोषत्वसङ्गतेः ॥१९०॥
एतेन=भवव्याधिना, मुक्तश्च मुक्तोऽपि सिद्ध: मुख्य एवोपपद्यते प्रवृत्तिनिमित्तभावात् । तथा चाह - जन्मादिदोषविगमात् कारणात्, तददोष
७२
त्वसङ्गतेः=तस्य दोषवतोऽदोषत्वप्राप्तेरिति ॥ १९०॥ अमुमेवार्थं स्पष्टयन्नाह
योगदृष्टिसंग्रह
तत्स्वभावोपमर्देऽपि तत्तत्स्वाभाव्ययोगतः । तस्यैव हि तथाभावात्तददोषत्वसङ्गतिः ॥१९१॥
तस्य=आत्मनः स्वभावोपमर्देऽपि सति जन्मादिभावविगमेन, तत्तत्स्वाभाव्ययोगतः=तत्तत्स्वाभाव्यं तेन योगात् । तथाहि तस्येत्थम्भूत एव स्वभावो येन स एव तथा भवतीति । ततश्च तस्यैव हि तथाभावात्, जन्मादित्यागतो=जन्माद्यतीतत्वेन भावात् । किमित्याह - तददोषत्वसङ्गतिः दोषवत एवाऽदोषत्वप्राप्तिरित्यर्थः ॥ १११ ॥
इत्थं चैतदङ्गीकर्तव्यमित्याह
स्वभावोऽस्य स्वभावो यन्निजा सत्तैव तत्त्वतः । भावावधिरयं युक्तो नान्यथाऽतिप्रसङ्गतः ॥ १९२॥
स्वभावोऽस्य = आत्मनः स्वभावो यद् अस्मात् । किमुक्तं भवति ? निजा सत्तैव तत्त्वतः=परमार्थेन । भावावधिरयं युक्तः स्वभावोऽनन्तरोदितः नान्यथा युक्तः । कुत इत्याह = अतिप्रसङ्गतः इति ॥१९२॥
एनमेवाह
अनन्तरक्षणाभूतिरात्मभूतेह यस्य तु । तयाऽविरोधान्नित्योऽसौ स्यादसन् वा सदैव हि ॥ १९३॥
अनन्तरक्षणाभूतिः=प्राक्पश्चात्क्षणयोरभूतिरित्यर्थः । आत्मभूतेह यस्य तु= वर्तमानस्य वादिनो वा । तस्य दोषमाह तया=अनन्तरक्षणभूत्या, अविरोधात्=कारणाद्वर्तमानभावेन । किमित्याह नित्योऽसौ = वर्तमानः स्यात्