SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ योगदृष्टिसमुच्चयः तत्र योगदृष्टिसंग्रह प्राकृतेष्विह भावेषु येषां चेतो निरुत्सुकम् । भवभोगविरक्तास्ते भवातीतार्थयायिनः ॥१२७॥ बुद्धिपूर्वाणि कर्माणि सर्वाण्येवेह देहिनाम् । संसारफलदान्येव विपाकविरसत्वतः ॥१२४॥ बुद्धिपूर्वाणि कर्माणि सर्वाण्येव सामान्येन, इह-लोके, देहिनां= प्राणिनाम् । किमित्याह-संसारफलदान्येव अशास्त्रपूर्वकत्वात् । तथा चाहविपाकविरसत्वतः इति तेषां नियोगत एव विपाकविरसत्वादिति ॥१२४॥ प्राकृतेष्विह भावेषु शब्दादिषु बुद्धिपर्यवसानेषु, येषां चेतो निरुत्सुकं, निःसङ्गतासमावेशात् । भवभोगविरक्तास्ते एवम्भूता जीवा मुक्तकल्पा, भवातीतार्थयायिन उच्यन्ते, भवचित्ताऽसंस्पर्शादिति ॥१२७।। ज्ञानपूर्वाणि तान्येव मुक्त्यङ्गं कुलयोगिनाम् । श्रुतशक्तिसमावेशादनुबन्धफलत्वतः ॥१२५॥ ज्ञानपूर्वाणि यथोदितज्ञाननिबन्धनानि, तान्येव कर्माणि । किमित्याह मुक्त्यङ्गं भवन्ति, कुलयोगिनां वक्ष्यमाणलक्षणानाम् । कुलयोगिग्रहणमन्याऽसम्भवज्ञापनार्थम् । कुत इत्याह-श्रुतशक्तिसमावेशात् हेतोः, अमृतशक्तिकल्पेयं नैतदभावे मुख्यं कुलयोगित्वम् । अत एवाह-अनुबन्धफलत्वतः मुक्त्यङ्गत्वसिद्धेः, तात्त्विकाऽनुबन्धस्यैवम्भूतत्वादिति ॥१२५॥ असंमोहसमुत्थानि त्वेकान्तपरिशुद्धितः । निर्वाणफलदान्याशु भवातीतार्थयायिनाम् ॥१२६॥ एक एव तु मार्गोऽपि तेषां शमपरायणः । अवस्थाभेदभेदेऽपि जलधौ तीरमार्गवत् ॥१२८॥ एक एव तु मार्गोऽपि चित्तविशुद्धिलक्षणः । तेषां भवातीतार्थयायिनां शमपरायणः शमनिष्ठः । अवस्थाभेदभेदेऽपि गुणस्थानक भेदापेक्षया । जलधौ तीरमार्गवदिति निदर्शनम् । अवस्थाभेदश्चेह तह्रासन्नतादिभेदेन ॥१२८॥ परतत्त्वाऽभिधित्सयाऽऽह संसाराऽतीतत्त्वं तु परं निर्वाणसज्ञितम् । तद्धयेकमेव नियमाच्छब्दभेदेऽपि तत्त्वतः ॥१२९॥ असंमोहसमुत्थानि=पुनर्यथोदितासंमोहनिबन्धनानि तु । एकान्तपरिशुद्धितः कारणात्, परिपाकवशेन । किमित्याह-निर्वाणफलदान्याशु-शीघ्रं तान्येव कर्माणि । केषामित्याह-भवातीतार्थयायिनां सम्यक्परतत्त्ववेदिनामित्यर्थः ॥१२६॥ एतेषामेव लक्षणमाह संसाराऽतीततत्त्वं त्विति संसाराऽतीतं पुनस्तत्त्वम् । किमित्याह-परं= प्रधानं, निर्वाणसज्ञितं निर्वाणसञ्ज्ञा सञ्जाताऽस्येति कृत्वा । तद्धयेकमेव सामान्येन, नियमात् नियमेन, शब्दभेदेऽपि वक्ष्यमाणलक्षणे सति, तत्त्वत:= परमार्थन ॥१२९॥ एतदेवाह सदाशिवः परं ब्रह्म सिद्धात्मा तथातेति च । शब्दैस्तदुच्यतेऽन्वर्थादेकमेवैवमादिभिः ॥१३०॥
SR No.009512
Book TitleYogadrushti Sangraha
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2003
Total Pages131
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy