SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ योगदृष्टिसमुच्चयः दर्शनस्य, महात्मनः सद्वीर्ययोगेन । किमित्याह - शुभः = प्रशस्त । क इत्याहनिमित्तसंयोगः=सद्योगादिसंयोगः, सद्योगादीनामेव निःश्रेयससाधननिमित्तत्वात् । जायते कुत इत्याह- अवञ्चकोदयात् वक्ष्यमाणसमाधिविशेषोदयादित्यर्थः ॥३३॥ अवञ्चकोदयाद् इत्युक्तम्ः अत एतत्स्वरूपप्रतिपिपादयिषयाह योगक्रियाफलाख्यं यच्छूयतेऽवञ्चकत्रयम् । साधूनाश्रित्य परममिषुलक्ष्यक्रियोपमम् ॥३४॥ २१ योगक्रियाफलाख्यं यस्माच्छूयतेऽवञ्चकत्रयमागमे “योगावञ्चकः क्रियावञ्चकः फलावञ्चक" इति वचनात् । अव्यक्तसमाधिरेवैष तदधिकारे पाठात्, चित्रक्षयोपशमतस्तथाविध आशयविशेष इति । एतच्च साधूनाश्रित्य साधवो=मुनयः, परमम् अवञ्चकत्रयम् । स्वरूपतस्त्वेतद्, इषुलक्ष्यक्रियोपमं शरस्य लक्ष्यक्रिया तत्प्रधानतया तदविसंवादिन्येव, अन्यथा लक्ष्यक्रियात्वाऽयोगात् एवं साधूनाश्रित्य योगावञ्चकस्तद्योगाऽविसंवादी । एवं तद्बन्दनादिक्रिया तत्फलं चाऽऽश्रित्यैष एवमेव द्रव्यत इति ॥ ३४॥ एतदपि यन्निमित्तं तदभिधातुमाह एतच्च सत्प्रणामाऽऽदिनिमित्तं समये स्थितम् । अस्य हेतुश्च परमस्तथाभावमलाऽल्पता ॥ ३५॥ एतच्च=अवञ्चकत्रयं, सत्प्रणामादिनिमित्तं = साधुवन्दनादिनिमित्तमित्यर्थः । समये स्थितं = सिद्धान्ते प्रतिष्ठितम् । अस्य = सत्प्रणामाऽऽदेः, हेतुश्च परमः । क इत्याह तथाभावमलाऽल्पता= कर्मसम्बन्धयोग्यताऽल्पता रत्नाऽऽदिमलाऽपगमे ज्योत्स्नादिप्रवृत्तिवदिति योगाचार्याः ॥३५॥ प्रकृतवस्त्वपोद्बलनाय व्यतिरेकसारमाह २२ योगदृष्टिसंग्रह नास्मिन् घने यतः सत्सु तत्प्रतीतिर्महोदया । किं सम्यग् रूपमादत्ते कदाचिन्मन्दलोचनः ॥३६॥ नास्मिन्=भावमले, घने प्रबले, यतः सत्सु = साधुषु, तत्प्रतीति:= सत्प्रतीतिर्भवति । किंविशिष्टेत्याह-महोदया अभ्युदयाऽऽदिसाधकत्वेन । प्रतिवस्तूपमयाऽमुमेवार्थमाह- किं सम्यग् रूपमादत्ते लक्षणव्यञ्जनादिकात्स्र्त्स्न्येन, कदाचिनन्मन्दलोचनः इन्द्रियदोषान्नादत्त एवेत्यर्थः ॥ ३६ ॥ अधुनाऽन्वयसारमधिकृतवस्तुसमर्थनायेवाह अल्पव्याधिर्यथा लोके तद्विकारैर्न बाध्यते । चेष्टते चेष्टसिद्ध्यर्थं वृ( धृ ) त्त्यैवायं तथा हिते ॥३७॥ अल्पव्याधि=क्षीणप्रायरोगः । यथा लोके कश्चित्तद्विकारै: = कण्ड्वादिभिः, न बाध्यते = व्याधेरल्पत्वेन न बाध्यते । किं चेत्याह-चेष्टते च राजसेवादौ, इष्टसिद्ध्यर्थं = कुटुम्बादिपालनाय । एष दृष्टान्तोऽयमर्थोपनय इत्याहवृ ( धृ ) त्त्यैव धर्मयोनिरूपया । एतच्च "वृत्तिः ( धृतिः) श्रद्धा सुखा विविदिषा विज्ञप्तिरिति धर्मयोनयः" इति वचनात् तदनया हेतुभूतया अयं = योगी तथा=अल्पव्याधिपुरुषवत्स्थूराऽकार्यवृत्तिनिरोधेन, हिते = हितविषये दानादौ चेष्टत इति ॥३७॥ एतदनन्तरोदितमखिलमेव यदोपजायते तदभिधातुमाह यथाप्रवृत्तकरणे चरमेऽल्पमलत्वतः । आसन्नग्रन्थिभेदस्य समस्तं जायते ह्यदः ॥३८॥ यथाप्रवृत्तकरणे प्राग्व्यावर्णितस्वरूपे । चरमे = पर्यन्तवर्तिनि । अल्पमलत्वतः कारणात् । आसन्नग्रन्थिभेदस्य सतः, समस्तम् अनन्तरोदितं, जायते ह्यद= एतदिति ॥ ३८ ॥
SR No.009512
Book TitleYogadrushti Sangraha
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2003
Total Pages131
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy