SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ १० मङ्गलवादसंग्रह विशेष्याग्रहादिति चेन्न, नमस्कारादिकमाचरेदिति प्रत्येकमेव विधिकल्पनात् । तथा च तदुपजीव्यविघ्नध्वंसकामनयानुगतो मङ्गलव्यवहार इति न किञ्चिदनुपपन्नम् । नमस्कारत्वमपि स्वापकर्षबोधानुकूलतावच्छेदकजातिमत्त्वमेव । सा च जाति: कायिकत्वादिस्वरूपा । न च कायिकत्वमपि न जाति:, सङ्करापत्तेरिति वाच्यम्, अन्यतरकर्मजन्यतावच्छेदिकया तज्जातेरनङ्गीकारात् । वाचनीकत्वमपि तत्तद्वर्णव्याप्यं भिन्नमेवेत्यलं विस्तरेण || इति महोपाध्यायश्रीभानुचन्द्रगणिशिष्य महोपाध्याय श्रीसिद्धिचन्द्रगणिविरचितो 'मङ्गलवाद: ' समाप्तः ॥ संवत् १९६७ वर्षे कार्तिकशुक्लपक्षे तिथौ पूर्णिमायाम् ॥ ॥ शुभं भवतु श्रीसङ्गस्य ॥
SR No.009508
Book TitleMangalvada Sangraha
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2007
Total Pages91
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy