________________
गा.-१८
बन्धशतकप्रकरणम्
बनातीति, । तथा निरनुकम्पया, शीलव्रतादेविलोपतो हस्त्यश्वबलीवादिनिर्दयदमनवाहननिर्लाञ्छनीकरणादिभिः, परसङ्क्लेशोत्पादनेन, सद्धर्मकृत्यप्रमादितया, कषायोत्कटतया, कार्पण्यभावतो मातापितृधर्माचार्यादिपूज्यजनावज्ञया, प्राणिवधादिभिश्च तीव्रमसातवेदनीयं निवर्तयतीति गाथार्थः ॥१७॥
मोहनीयं दर्शनचारित्रमोहभेदाद् द्विधा, तत्र दर्शनमोहहेतूनाह
अरहंतसिद्धचेइयतवसुयगुरुसाहुसंघपडणीओ। बंधनइ दंसणमोहं अणंतसंसारिओ जेणं ॥१८॥
अर्हत्सिद्धचैत्यतप:श्रुतगुरुसाधुसङ्घानां प्रत्यनीकोऽवर्णवादाद्यनिष्टनिर्वर्त्तको बध्नाति दर्शनमोहं-मिथ्यात्वमोहनीयं कर्म येन किमित्याह-अनन्तसंसारिको येन बद्धेन भवति जीवः । अन्यच्चोन्मार्गदेशनया, मार्गविप्रतिपत्त्या, धार्मिकजनसन्दूषणया, अदेवगुरुतत्त्वेषु देवगुरुतत्त्वबुद्ध्या, नारकसुरसिद्धादिविपरीतभावनया, चैत्यद्रव्यापहारमुनिघातप्रवचनापभ्राजनादिभिस्तीवं दर्शनमोहमुपरचयतीति गाथार्थः ॥१८॥
इदानीं चारित्रमोहस्य