________________
गा.-१४
बन्धशतकप्रकरणम्
दीनामिति गम्यते, क्वेत्याह-प्रथमे मिथ्यादृष्टिगुणस्थाने । ___ इदमुक्तं भवति-मिथ्यात्वादिभिश्चतुभिः सोत्तरभेदैमिथ्यादृष्टिानावरणादिकर्म बध्नाति । उत्तरभेदास्त्वत्राहारकतन्मिश्रद्विकवर्जनात् पञ्चपञ्चाशदेव मन्तव्याः, तद्वर्जनं तु 'संयमवतां तदुदयो नान्यस्य' इति वचनादिति । उपरितनत्रिकेसास्वादनमिश्राविरतलक्षणे, त्रयः प्रत्यया यत्र स त्रिप्रत्ययो बन्धो भवति ।।
एतदुक्तं भवति-सास्वादनादयस्त्रयो मिथ्यात्वोदयाभावात्तद्वज्य: शेषैस्त्रिभिः प्रत्ययैः सोत्तरभेदैः कर्म बध्नन्ति । ते चोत्तरभेदा पूर्वोक्तायाः पञ्चपञ्चाशतो मिथ्यात्वपञ्चकेऽपनीते सास्वादनस्य तावत्पञ्चाशद् द्रष्टव्याः । सम्यग्मिथ्यादृष्टेस्तु परलोकगमनाभावात् कार्मणम् औदारिकमिश्रं वैक्रियमिश्रं च न सम्भवति, अनन्तानुबन्ध्युदयस्य चास्य निषिद्धत्वादनन्तानुबन्धिचतुष्टयं च नास्त्यत एतेष्वपि सप्तसु पूर्वोक्तायाः पञ्चाशतोऽपनीतेषु शेषास्त्रिचत्वारिंशदुत्तरभेदा भवन्ति । अविरतस्य तु परलोकगमनसम्भवात् पूर्वापनीतकार्मणौदारिकमिश्रवैक्रियमिश्रत्रये पूर्वोक्तायां त्रिचत्वारिंशति पुनः प्रक्षिप्ते षट्चत्वारिंशद्भेदा भवन्ति । 'मीसगबीओ | उवरिमदुगं च देसेक्कदेसंमि' त्ति देश: सर्वसावद्ययोगस्य त्रसप्राणातिपातादिः, एकदेशस्तु तस्यैव देशस्य द्वीन्द्रियातिपातादिः तयोर्देशैकदेशयोविरतिसद्भावादुपचारतो देशविरतिरेव इह देशैकदेशशब्देन विवक्षितः, तस्मिन् देशैकदेशे देशविरते, 'मीसगबीओ'त्ति द्वितीयोऽविरतिलक्षणः प्रत्ययो मिश्रो भवति, मिश्रशब्दश्चात्रापरिपूर्णवाची, त्रसवधादस्य निवृत्तत्वान्न
७०
A