________________
बन्धशतकप्रकरणम्
त्रिषु गुणस्थानेषु मिथ्यादृष्टिसास्वादनाविरतलक्षणेषु त्रयोदश योगा भवन्ति, तद्यथा - मनोयोगश्चतुर्विधोऽपि वाग्योगोऽपि चतुर्धा, औदारिकवैक्रियकाययोगौ पर्याप्तेष्वेषु लभ्येते औदारिकवैक्रियमिश्रकाययोगावपर्याप्तकावस्थायाम्, कार्मणकाययोगो विग्रहगतावेवमेते त्रयोदश योगाः पूर्वोक्तस्वरूपा नानाजीवापेक्षया भवन्ति । आहारकतन्मिश्रद्विकं तु न सम्भवति, संयमप्रत्ययत्वात् | तस्य । अत्र च मते वैकिययोगसम्भवोऽविरतान्तानामेव मन्तव्यः, न देशविरतादीनाम्, तेषां तल्लब्ध्यभावादिति । 'एगे दस' त्ति एकस्मिन् सम्यग्मिथ्यादृष्टौ दश योगा भवन्ति, अष्टौ मनोवाग्योगा औदारिकशरीरं वैक्रियशरीरं चेति । कार्मणशरीरं तु न सम्भवति, | तस्य विग्रहगतावेव भावाद्, अस्य च मरणाभावेन विग्रहगत्यभावात्, तदुक्तम्- "न सम्ममिच्छो कुणइ कालं "इति, अत एवौदारिकवैक्रियमिश्रेऽपि न सम्भवतः, तयोरपर्याप्तावस्थाभावित्वात्, तदवस्थायां च सम्यङ्मिथ्यात्वाभावादिति ।
ननु यद्येवं तर्हि देवलोकनरकसम्भविवैक्रियमिश्रं मा भूदस्य, मनुष्यतिरश्चां तु सम्यङ्मिथ्यादृशां वैक्रियकरणसम्भवे तत् कस्मादस्य नाभ्युपगम्यते, सत्यम्, तेषां वैक्रियकरणासम्भवतोऽन्यतो वा कुतश्चित्कारणात्तदपि नोक्तमिति न ज्ञायते, तथाविधाम्नायाभावादिति ।
सप्तसु गुणस्थानकेषु देशविरताप्रमत्तापूर्वकरणादिक्षीणमोहान्तेषु नव नव योगा भवन्ति, अष्टौ मनोवाग्योगाः, औदारिकशरीरयोगश्चेति, तद्भावेनैषां जन्मान्तराभावात् कार्मणौदारिकमिश्रयोगौ न सम्भवतः, वैक्रियद्विकाभावस्तु देवनारकेष्वे१. न सम्यङ्मिथ्यादृष्टिः करोति कालम् ।
गा.- १२
६२