SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ बन्धशतक गा.-९ महात्मा समासन्नपरमनिर्वृत्तिसुखसमुल्लसितप्रचुरदुनिर्वारवीर्यप्रसरोऽतिनिशितकुठारधारयेव परमविशुद्ध्या यथोक्तस्वरूपग्रन्थेर्भेदं विधाय मिथ्यात्वमोहनीयं कर्मस्थितेरन्तर्मुहूर्तमुदयक्षणादुपर्यतिक्रम्याऽपूर्वकरणानिवृत्तिकरणलक्षणविशुद्धिजनितसामोऽन्तमुहूर्त्तकालप्रमाणं तत्प्रदेशवेद्यदलिकाभावरूपमन्तरकरणं करोति । अत्र च यथाप्रवृत्तापूर्वानिवृत्तिकरणानामयं क्रमो वेदितव्यो, यथा जा गण्ठी ता पढम, गंठिं समइच्छओ भवे बीयं । अनियट्टीकरणं पुण सम्मत्तपुरक्खडे जीवे ॥१॥ गण्ठि समइच्छउ त्ति ग्रन्थि समतिक्रामतो भिन्दानस्येत्यर्थः । सम्मत्तपुरक्खड़े त्ति, सम्यक्त्वं पुरस्कृतं येन स तथा तस्मिन्नासन्नसम्यक्त्व एव जीवेऽनिवृत्तिकरणं भवतीत्यर्थः । शेषं सुगमम् । एतस्मिश्चान्तरकरणे कृते तस्य मिथ्यात्वमोहनीयस्य कर्मणः स्थितेर्द्वयं भवति अन्तरकरणादधस्तनी प्रथमा स्थितिरन्तर्मुहूर्त्तमात्रा, तस्मादेवोपरितनी शेषा द्वितीया स्थितिरिति । स्थापना चेयं । तत्र प्रथमस्थितौ मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिरेवाऽन्तर्मुहूर्तेन पुनस्तस्यामपगतायामन्तरकरणप्रथमसमय एवौपशमिकं सम्यक्त्वमाप्नोति, मिथ्यात्वदलिकवेदनाऽभावात् । यथा हि वनदवानलः पूर्वदग्धेन्धनमूषरं वा देशमवाप्य विध्यापयति, तथा मिथ्यात्ववेदनाग्निरन्तरकरणमवाप्य विध्यापयति, तस्यां चान्तरमौहूर्तिक्यामुपशान्ताद्धायां परमनिधिलाभकल्पायां १. यावद् ग्रन्थिस्तावत् प्रथमं ग्रन्थि समतिक्रामतो भवेत् द्वितीयम् । अनिवृत्तिकरणं पुनः सम्यक्त्वपुरस्कृते जीवे ॥१॥
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy