________________
बन्धशतक
गा.-९९
प्रकरणम् |
सर्वजघन्यवीर्ये व्यवस्थितो नाम्न एकत्रिंशत्प्रकृतीबंध्नन्नप्रमत्तयतिराहारकद्विकं जघन्यप्रदेशं बध्नाति । त्रिंशबन्धेऽप्येतद् बध्यते, परं तत्राल्पा भागा इत्येकत्रिंशद्बन्धग्रहणम् । एतच्च प्रकृतिद्वयमन्यत्र न बध्यत इत्यप्रमत्तयतिग्रहणम् । शेषं पूर्ववत् । 'पंचासंजयसम्मो भवाइ'त्ति देवद्विकवैक्रियद्विकतीर्थकरनामलक्षणाः पञ्चप्रकृतीर्भवाद्यसमये वर्तमानोऽविरतसम्यग्दृष्टिजघन्यप्रदेशाः करोति । तथाहि-कश्चिन्मनुष्यः तीर्थकरनाम बद्ध्वा देवेषूत्पन्नः प्रथमसमये एव मनुष्यगतिप्रायोग्यां पूर्वदर्शितां - नामप्रकृतित्रिंशतं बध्नतः मूलप्रकृतिसप्तविधबन्धकोऽविरतसम्यग्दृष्टिः स्वप्रायोग्यजघन्यवीर्ये स्थितस्तीर्थकरनाम जघन्यप्रदेश बनाति । नारकोऽपि श्रेणिकादिवदेतबन्धकः सम्भवति, परमिह देवोऽल्पयोगत्वादनुत्तरवासी गृह्यते । नारकेषु एवम्भूतो जघन्ययोगो न लभ्यते, अतस्तेषूत्पन्नो नेह गृहीतः । तिर्यञ्चस्तु तीर्थकरनाम न बध्नन्तीत्युपेक्षिताः । मनुष्यास्तु भवाद्यसमये तीर्थकरनामसहितां नाम्न एकोनत्रिंशतमेव बध्नन्ति, अतस्तत्राल्पा भागा भवन्ति । एकत्रिंशबन्धस्तु तीर्थकरनामसहितः संयतस्यैव भवति, तत्र च वीर्यमल्पं न लभ्यते । अन्येषु नामबन्धेषु तीर्थकरनामैव न बध्यते, अतः शेषपरिहारेण त्रिंशबन्धकस्य देवस्यैव ग्रहणम् । देवद्विकवैक्रियद्विकयोस्तु बद्धतीर्थकरनामा देवनारकेभ्यश्च्युत्वा समुत्पन्नो मूलप्रकृतिसप्तविधबन्धको भूयस्कारादिचिन्तावसरदर्शितस्वरूपां तीर्थकरनामसहितां देवगतिप्रायोग्यां नामैकोनत्रिशति निर्वर्तयन् स्वप्रायोग्यसर्वजघन्यवीर्ये व्यवस्थितो भवाद्यसमये वर्तमानो मनुष्यो जघन्यं प्रदेशबन्धं करोति । देवनारका हि तावद्भवप्रत्ययादेवैतत्प्रकृतिचतुष्टयं न बजन्तीति नेहाधिकृताः । तिर्यञ्चस्त्वकर्मभूमिजा भवादिसमयेऽपि बध्नन्त्येतत्, केवलं ते देवगतिप्रायोग्यामष्टाविंशतिमेव |
AAAA
३०७