SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ बन्धशतकप्रकरणम् यस्या उत्तरप्रकृतेर्बन्धो व्यवच्छिद्यते, तद्भागद्रव्यं यावत्समानजातीया एकापि प्रकृतिर्बध्यते, तावत्तस्या एव तद्भवति, यदा तु समानजातीया अपि सर्वा व्यवच्छिद्यन्ते, न च मिथ्यात्वादेरिवापरा समानजातीया प्रकृतिरस्ति, तदा तद्भागद्रव्यं सर्वमपि स्वमूलप्रकृत्यन्तर्गतानां विजातीयप्रकृतीनामपि भवति । यदा तु ता अपि व्यवच्छिद्यन्ते, तदा सर्वमप्यन्यस्या मूलप्रकृतेर्भवति । अत्र निदर्शनं यथा स्त्यानद्धित्रिकबन्धे व्यवच्छिन्ने तद्भागद्रव्यं समानजातीयत्वान्निद्राप्रचलयोर्भवति । तयोरपि बन्धव्यवच्छेदे - स्वमूलप्रकृत्यन्तर्गतानां चक्षुर्दर्शनावरणादीनां विजातीयानामपि भवति । तेषामपि बन्धव्यवच्छेदे उपशान्ताद्यवस्थायां सर्वं वेदनीयस्यैव भवति । मिथ्यात्वादेस्तु समानजातीया प्रकृतिर्नास्ति अतस्तद्व्यवच्छेदे तद्भागद्रव्यं विजातीयप्रकृतीनामेव क्रोधादीनां भवति, एवमन्यत्रापि स्वधियाऽभ्यूह्यमित्यत्र बहु वक्तव्यम्, तत्तु ग्रन्थविस्तरभयान्नोच्यत इति गाथाद्वयार्थः ॥९०-९१॥ भा० आउयभागो इच्चाइ गाहजुयलेण तत्थ उवसंतो । आई धरित्तु सव्वे वेयणियं चेव बंधंति ॥७७५॥ वेयणियकम्मदव्वं वेयणियस्सेव होइ नन्नेसि । तह सुहुमसंपराओ य छव्विहं बंधए कम्मं ॥७७६॥ तेण गिहीयं दव्वं भागेहिं छहि उ परिणमइ तह य । सगडविहबंधगाणं सगट्ठभागेहिं परिणमइ ॥७७७॥ अट्टविहबंधगं पइ आउगभागो इमाइ गाहदुगं । मूलपयडीउ आसज्ज वन्नियं भागदारं ति ॥७७८॥ तहिं थोवत्ते तुल्लत्तणंमि अहिगत्तणमि चालणया । भावत्थजुयं सव्वं उत्तरदाणाइयं तह य ॥७७९॥ २७६
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy