________________
बन्धशतक प्रकरणम्
परिणमति । नामगोत्ररूपतया तु यः परिणमति, स स्वस्थाने द्वयोरपि समस्त आयुष्कभागात्त्वधिको विशेषाधिक इत्यर्थः । 'आवरणमंतराए 'त्ति ज्ञानावरणदर्शनावरणान्तरायरूपतया तु यो भागः परिणमति, स स्वस्थाने त्रयाणामपि तुल्योऽधिकश्च, नामगोत्रापेक्षया विशेषाधिक इत्यर्थः, 'मोहे वित्ति न केवलं पूर्वोक्तकर्मणां भागो विशेषाधिको भवति, मोहनीयेऽपि कर्मणि यो द्रव्यभागः परिणमति सोऽप्यधिक इतीहापि सम्बध्यते, अनन्तरोक्तकर्मत्रयभागापेक्षया विशेषाधिक इत्यर्थः । 'सव्वुवरिं वेयणीए भागो अहिगो यत्ति । वेदनीयकर्मणि यो भागः परिणमति, स सर्वेषामपि शेषकर्मभागानामुपरि वर्त्तते । इदमुक्तं भवतिपूर्वोक्तकर्मभागानां सर्वेषामपि तावन्मोहनीयभाग उपरि जातस्ततोऽपि वेदनीयभाग उपरीति, कथम्भूत इत्याह-अधिको | मोहनीयभागापेक्षयापि विशेषाधिक इत्यर्थः । चकारः पूर्वोक्तभागेभ्योऽपि विशेषार्थ एव । 'कारणं किंतु 'त्ति । अत्र च शिष्यः पृच्छति, किं पुनरिह कारणं येनोक्तक्रमेण कर्मणां भागाधिकत्वं भवतीत्यत्र वेदनीयस्य तद्भागाधिक्ये कारणमाहसुहदुक्खकारणत्त 'ति । सुखदुःखकारणरूपं हि वेदनीयं तद्भागपरिणताश्च पुद्गलाः स्वभावादेव प्रचुराः सन्तः स्वभावकार्यभूते सुखदुःखे स्फुटतरीकर्त्तुमलं, शेषकर्मपुद्गलास्त्वल्पा अपि स्वकार्यं निवर्त्तयन्ति दृष्टं च पुद्गलानां स्वकार्यजनने अल्पबहुत्ववैचित्र्यम् । यथाहि - घृ (ष) ष्ठ्यादिकदशनं बहुतरमुपभुक्तं तृप्तिलक्षणं स्वकार्यमातनोति । मृद्वीकादिकत्वल्पमपि भुक्तं तृप्तिमुपकल्पयति, यथा वा विषं स्वल्पमपि मारणादिकं कार्यं साधयति लेष्ट्वादिकं तु प्रचुरमित्येवमिहाप्युपनयः कार्यः, तस्मात् प्रभूता वेदनीयपुद्गलाः सुखदुःखे साधयन्ति इति सुखदुःखकारणत्वाद्वेदनीयस्य महान् भाग इति स्थितम् । शेषकर्मणां
I
गा.-९०९१
२७२