SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ बन्धशतक प्रकरणम् सारजुया वोच्छं गाहाओ जं सुत्तयं तहिं तासिं । अत्थाहिगारकहणं दुवारगाहादुगं आह ॥८॥ इहानन्तरगाथायां सारयुक्ता गाथा वक्ष्य इति प्रतिज्ञातम् कीदृशाधिकारयुक्ताः पुनरेता इति प्रश्नमाशङ्क्य तासामर्थाधिकारसङ्ग्रहार्थं द्वारगाथाद्वयमाह वओगा जोगविही, जेसु अ ठाणेसु जत्तिया अस्थि । जप्पच्चइओ बंधो, होइ जहा जेसु ठाणेसु ॥२॥ बंधं उदयमुदीरणविहिं च तिण्हं पि तेसि संजोगं । बंधविहाणे य ता किंचि समासं पवक्खामि ॥३॥ अत्र विधिशब्दो भेदवचनः, प्रत्येकं च योज्यते । 'उवओगा' इत्याकारश्चालाक्षणिकस्ततश्चोपयोगभेदा योगभेदाश्च येषु स्थानेषु जीवस्थानगुणस्थानलक्षणेषु प्रत्येकं यावन्तः सन्ति तेऽत्र प्रकरणेऽभिधास्यन्त इति । प्रथमगाथायां क्रियाध्याहारो द्रष्टव्यः । चकारस्य भिन्नक्रमत्वाद्यत्प्रत्ययश्च बन्धो मिथ्यात्वाविरतिकषाययोगानां कर्माष्टकस्यापि सामान्यबन्धहेतूनां मध्ये कैर्बन्धहेतुभिः कस्मिन् गुणस्थाने बन्धः सम्भवतीत्यप्यत्राभिधास्यते । 'होड़ जह' त्ति स एव बन्धः प्रत्येकं ज्ञानावरणादिकर्मणां गा.-२-३ ६
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy