SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ बन्धशतक प्रकरणम् सङ्क्लिष्टानामधोवर्त्तिमनुष्यादिप्रायोग्यबन्धप्रसङ्गादिशुद्धौ उत्कृष्टबन्धाभावादिति भाविताः पञ्चदशापि प्रकृतयः । 'छहं सुरनेरइय इति तिर्यग्द्विकौदारिकद्विकसेवार्तोद्योतलक्षणानां षट्प्रकृतीनामुत्कृष्टस्थितिबन्धकाः सुरा नारकाश्च भवन्ति, न मनुष्यतिर्यञ्चः । ते हि तत्प्रायोग्यबन्धार्हसङ्क्लेशे वर्त्तमाना एषां कर्मणामुत्कृष्टतोऽप्यष्टादशकोटीकोटिलक्षणामेव मध्यमां स्थितिमुपरचयन्ति, अथाभ्यधिकसङ्क्लेशे वर्त्तमाना गृह्येरंस्तर्हि प्रस्तुतकर्मबन्धमतिक्रम्य नरकप्रायोग्यं उपरचेयुः, देवनारकास्तु सर्वोत्कृष्टसङ्क्लेशा अपि तिर्यग्गतिप्रायोग्यमेव बध्नन्ति, न नरकगतिप्रायोग्यं तत्र तेषामुत्पत्त्यभावात् तस्माद्देवनारका एव सर्वसङ्क्लिष्टाः प्रस्तुतषट्कस्य विंशतिसागरोपमकोटीकोटिलक्षणामुत्कृष्टां स्थितिं रचयन्ति । अत्र च सामान्योक्तावपि | सेवार्तौदारिकाङ्गोपाङ्गलक्षणप्रकृतिद्वयस्योत्कृष्टस्थितिबन्धका देवा ईशानादुपरि सनत्कुमारादय एव द्रष्टव्याः, नेशानान्ताः । ते हि तत्प्रायोग्यसङ्क्लेशे वर्त्तमानाः प्रकृतकर्मद्वयस्योत्कृष्टतोऽप्यष्टादशकोटीकोटिलक्षणां मध्यमामेव स्थिति बन्धन्ति, अथ सर्वोत्कृष्टसङ्क्लेशा गृह्यन्ते, तर्हि एकेन्द्रियप्रायोग्यमेव निर्वर्त्तयेयु चैकेन्द्रियप्रायोग्यबन्धे एते कर्मणी बध्येते, तेषां संहननाङ्गोपाङ्गाभावात् । सनत्कुमारादयस्तु सर्वसङ्क्लिष्टा अपि पञ्चेन्द्रियतिर्यक्प्रायोग्यमेव बध्नन्ति, नैकेन्द्रियप्रायोग्यम्, तेषां तेषूत्पत्त्यभावात्, | तस्मात्प्रकृतकर्मद्वयस्य विंशतिसागरोपमकोटीकोटिलक्षणामुत्कृष्टस्थितिं सर्वसङ्क्लिष्टा सनत्कुमारादय एव बध्नन्ति, नाधस्तनाः । 'ईसाणंता सुरा तिण्हं' इति एकेन्द्रियजात्यातपस्थावरलक्षणप्रकृतित्रयस्योत्कृष्टां स्थितिं ईशानोऽन्ते येषां ते ईशानान्ता भवनपत्यादय | ईशानपर्यवसाना देवा: सर्वोत्कृष्टसङ्क्लेशा बध्नन्तीत्यर्थः । तथाहि - ईशानादुपरितना देवा नारकाश्चेकेन्द्रियेषु नोत्पद्येयुरित्ये गा.-६१ १८७
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy