________________
बन्धशतक
गा.-५४
प्रकरणम्
विशेषाः सङ्ग्रहीताः । यतोऽन्यो बृहत्तरबन्धो नास्ति, स उत्कृष्टबन्धस्ततोऽधस्तात्समयहानिमादौ कृत्वा यावज्जघन्य| बन्धस्तावत्सर्वोऽप्यनुत्कृष्ट इति । उत्कृष्टानुत्कृष्टप्रकाराभ्यां वा सर्वेऽपि स्थितिविशेषाः सङ्ग्रहीताः, तत्र 'मूल'त्ति आयुर्वर्ण्यमूलप्रकृतीनां सप्तानां सम्बन्धिन्यो याः स्थितयस्तासां यो जघन्यो बन्धः स साद्यादिर्भवति, सादिरनादिधुंवोऽध्रुवश्चेति चतुर्विकल्पोऽपि भवतीत्यर्थः । तथा हि-एतासां प्रकृतीनां मध्ये मोहनीयस्य क्षपकानिवृत्तिबादरचरमस्थितिबन्धे जघन्यस्थितिबन्धः प्राप्यते । शेषप्रकृतिषट्कस्य तु क्षपकसूक्ष्मसम्परायचरमस्थितिबन्धेऽसौ लभ्यते । अतोऽन्यः सर्वोऽप्युपशमश्रेणावप्यजघन्यो भवति, उपशमकस्यापि क्षपकाद् द्विगुणबन्धकत्वादजघन्य एव भवतीति भावः । ततश्चोपशान्तमोहावस्थायामजघन्यबन्धस्याबन्धको भूत्वा यदा प्रतिपत्य पुनरपि प्रस्तुतकर्मसप्तकस्याजघन्यं बध्नाति, तदाऽजघन्यः सादिर्भवति, बन्धव्यवच्छेदानन्तरं तत्प्रथमतया बध्यमानत्वात् । उपशान्तमोहाद्यवस्थां चाऽप्राप्तपूर्वाणां बन्धव्यवच्छेदाभावेन अनादिकालान्निरन्तरं बध्यमानत्वाद् अनादिः । अभव्यानां ध्रुवोऽभाविपर्यन्तत्वाद्रव्यानामध्रुवो भाविपर्यन्तत्वात् । 'सेसतिगे दु विगप्पो' त्ति शेषत्रिकं नाम जघन्योत्कृष्टानुत्कृष्टलक्षणम् । तत्र प्रकृतकर्मसप्तकस्य द्विविकल्पः, सादिरध्रुवश्च बन्धो भवतीत्यर्थः । तथा त्वेतेषां कर्मणां मध्ये मोहस्य क्षपकानिवृत्तिबादरचरमस्थितिबन्धे, शेषाणां तु क्षपकसूक्ष्मसम्परायचरमस्थितिबन्धे जघन्यो बन्धोऽनन्तरमेवोक्तः, स चाबद्धपूर्वोऽजघन्यबन्धादवतीर्य तत्प्रथमतया तस्मिन्नेव समये बध्यत इति सादिः, ततः परं क्षीणमोहाद्यवस्थायां सर्वथा न भवतीत्यध्रुव इति द्वावेव विकल्पौ सम्भवतो न शेषौ । उत्कृष्टस्तु त्रिसत्सागरोपमकोटीकोट्यादिक:
१७३