________________
गा.-४३
बन्धशतक-A प्रकरणम्
र
AA
पोद्योतयोरेकतरप्रक्षेपे षड्विंशतिर्भवति । सा च पर्याप्तैकेन्द्रियप्रायोग्यैव बध्यते, नान्यप्रायोग्या । बन्धकाश्च तत्रोत्पादकयोग्या जीवा द्रष्टव्याः । अष्टाविंशति तु देवगतिप्रायोग्यां तिर्यङ्मनुष्यास्तत्प्रायोग्यविशुद्धा बध्नन्ति । तद्यथा-देवगतिर्देवानुपूर्वी| पञ्चेन्द्रियजातिक्रियद्विकं समचतुरस्रं, उच्छासं पराघातं प्रशस्तविहायोगतिस्त्रसं बादरं पर्याप्तं प्रत्येकं स्थिरास्थिरयोः शुभाशुभयोर्यश:कीर्त्यश:कीयोः पृथगेकैकमन्यतरद्वाच्यम्, सुभगं सुस्वरमादेयमित्येता एकोनविंशतिर्नवभिर्धवबन्धिनीभिः सहाष्टाविंशतिर्भवति । एतस्या अष्टाविंशतेर्मध्ये तीर्थकरनामबन्धे प्रक्षिप्ते एकोनत्रिंशद्भवति । तां च सम्यग्दर्शनिनो मनुष्या एव | बद्धतीर्थकरनामानो देवगतिप्रायोग्यां बध्नन्ति । अथवा पर्याप्तपञ्चेन्द्रियतिर्यक्प्रायोग्यापीयमेकोनत्रिंशद् बध्यते । तत्र पर्याप्तैकेन्द्रियप्रायोग्या या पञ्चविंशतिरुक्ता, तस्या मध्ये औदारिकाङ्गोपाङ्गेऽन्यतरसंहननेऽन्यतरस्वरे विहायोगतौ चान्यतरस्यां क्षिप्तायामसौ भवति । नवरमेकेन्द्रियजातिस्थाने पञ्चेन्द्रियजातिनाम स्थावरस्थाने त्रसं वाच्यम् । इदानी त्रिंशदुच्यते, सा च पूर्वोक्ताया अष्टाविंशतेमध्ये आहारकद्विकक्षेपे भवति । केवलं स्थिरशुभयश:कीर्त्तय एव वाच्याः, न प्रतिपक्षाः बन्धको चास्या अप्रमत्तापूर्वकरणाविति । अथवा कश्चिदिह बद्धतीर्थकरनामकर्मा दिवि समुत्पन्नः, पुनरपि मनुष्येषूत्पत्स्यत इति मनुष्यगतिप्रायोग्यां तीर्थकरनामसहितां त्रिंशति देवो बध्नाति । तद्यथा-मनुष्यद्विकं पञ्चेन्द्रियजातिरौदारिकद्विकं समचतुरस्त्रं वज्रर्षभनाराचं पराघातम् उच्छासं प्रशस्तविहायोगतिस्त्रसादिचतुष्कं स्थिरास्थिरयोः शुभाशुभयोर्यश:कीर्त्ययश:कीर्योः पृथगेकैकं । वाच्यम् । सुभगं सुस्वरम् आदेयं तीर्थकरमित्येता एकविंशतिर्नवभिर्धवबन्धिनीभिः सह त्रिंशद्भवति । इदानीमेकत्रिंशदुच्यते सा
AAAAA
१४४
AAA