________________
गा.-३९
बन्धशतकप्रकरणम्
P
'तुल्लं वित्थडबहुलं, उस्सेहबहुं च मडहकोटुं च । हेट्ठिलकायमडहं सव्वत्थासंठियं हुंडं ॥१॥ इति ।। अस्याप्यर्थः संस्थानषट्कस्यापि यथाक्रमं लक्षणसूचको व्याख्यात एव । यदुदयादिदं षड्विध संस्थानं वपुषि भवति तदपि कमैतन्नामकमिति । वर्ण वर्णक्रियाविस्तारगुणवचनेष्विति चुरादौ पठ्यते । ततश्च वर्ण्यतेऽलङ्क्रियते गुणवत्क्रियते चित्रभूवस्त्राद्यनेनेति वर्णः कृष्णादिः पञ्चधा । किण्हा नीला लोहियहालिद्दा चेव तहेव सुक्किलया' इति वचनात् । स च जन्तुशरीरेषु यदुदयाद्भवति तद्वर्णनाम ।
तथा 'बस्तगन्ध अईन'-इति, गन्ध्यते आघ्रायत इति गन्धो द्विधा सुरभीतरभेदात् ।
तथा 'रस आस्वादनस्नेहनयोः' रस्यते आस्वाद्यत इति रसस्तिबतादिः पञ्चधा, "तित्तगकडुयकसाया अंबिलमहुरा रसा य पंच भवे' इति वचनात् । 'बुपस्पृश स्पर्शे' स्पर्श्यत इति स्पर्शः कर्कशादिरष्टधा, "कक्खडमिउगुरुलहुया सीयाउसिणा य निद्धलुक्खा य' इति वचनात् ।
१. तुल्यं विस्तरबहुलमुत्सेधबहुं च मडहकोष्टं च । अधस्तनकायमडहं सर्वत्रासंस्थितं हुण्डम् ॥१॥ २. कृष्णनीललोहितहालिद्रा एव तथा च शुक्लता । ३. तिक्तकटुककषाया आम्लमधुरा रसाः पञ्च भवेयुः । ४. कर्कक्षमृदुगुरुलघुकाः शीतोष्णौ च स्निग्धरुक्षौ च ।
१२३