SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ बन्धशतक प्रकरणम् अत्र च चक्षुर्दर्शनावरणोदये एकद्वित्रीन्द्रियाणां मूलत एव चक्षुर्न भवति, चतुष्पञ्चेन्द्रियाणां तु भूतमपि चक्षुस्तथाविधे तदुदये विनश्य तिमिरादिना वाऽस्पष्टं भवति । चक्षुर्वर्जशेषेन्द्रियमनसां तु यथासम्भवमचक्षुर्दर्शनावरणोदयादवगन्तव्यमित्युक्तं नवविधं दर्शनावरणम् । आरोग्यविषयोपभोगादिजनितमाह्लादरूपं सुखं सातमुच्यते, तद्रूपेण विपाकेन वेद्यत इति सातवेदनीयम् । अनारोग्यादि| जनितं दुःखमसातं तद्रूपेण विपाकेन वेद्यत इत्यसातवेदनीयमित्युक्तं द्विविधं वेदनीयम् । मुह्यन्ति सत्कृत्येभ्यः पराङ्मुखीभवन्ति, जीवा अनेनेति मोहनीयम् । तत्र तत्त्वार्थश्रद्धानं दर्शनं तन्मोहयति विपर्यासं गमयतीति दर्शनमोहनीयम् । तत् त्रिविधं मिथ्यात्वादि । तत्र मिथ्यात्वमेकविधादिरूपं पूर्ववद् द्रष्टव्यम्, तादृशविपाकवेद्यं कर्मापि मिथ्यात्वम् । सम्यङ्मिथ्यात्वं तत्त्वार्थश्रद्धानस्यार्द्धविपर्ययत्वमुच्यते, नैकान्तशुद्धमशुद्धं वा जिनप्रणीततत्त्वश्रद्धानमित्यर्थः, तादृशविपाकवेद्यं कर्म सम्यङ् मिथ्यात्वम् । अविपर्यस्तजिनप्रणीततत्त्व श्रद्धानभावेन तु वेद्यमानं कर्म सम्यक्त्वमिति । चरन्ति परमपदं गच्छन्ति जीवा अनेनेति चरित्रं तदेव चारित्रं, अष्टप्रकारं कर्म चयरिक्तीकरणाद्वा चारित्रं, सर्वसावद्यॐ योगनिवृत्तिरूपो जीवपरिणाम इत्यर्थः, तन्मोहयतीति चारित्रमोहनीयम् । तत्र षोडश कषायाः, कषायशब्दार्थः प्रानिरूपित एव । तत्रानन्तं भवमनुबध्नन्तीत्येवंशीला अनन्तानुबन्धिनो, यद्यपि चैतेषां शेषकषायोदयरहितानामुदयो नास्ति, तथाप्यवश्यमनन्तसंसारमौलकारणमिथ्यात्वोदयात् क्षेपकत्वादेषामेवानन्तानुबन्धित्वव्यपदेशः, शेषकषाया हि नावश्यं मिथ्यात्वोदयमाक्षिपन्ति, गा.-३९ ११५
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy