SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ गा.-३९ बन्धशतकप्रकरणम् AAAA एव । तथा मतिपूर्वं श्रुतं प्रवर्त्तत इति हेतुफलभावाद्भेदो । न ह्यवग्रहादिभिरपरिछिन्ने वस्तुनि जातुचिच्छ्रुतं प्रवर्त्तते । तथा| | भेदभेदानेदोऽष्टाविंशत्यादिभेदं मतिज्ञानमुक्तं, विंशत्यादिभेदं तु श्रुतम् । तथा मूकेतरभेदाढ़ेदो, मूकं हि मतिज्ञानम्, अपरप्रत्यायकत्वात्, मुखरं च श्रुतज्ञानं, परप्रत्यायकत्वात् । तथा काललक्षणविषयभेदादपि भेदः, प्रायः साम्प्रतकालविषयत्वादाभिनिबोधिकस्य, त्रिकालविषयत्वाच्च श्रुतस्येति । स्वाम्यादिभिरभेदेऽपि लक्षणादिभिर्मतिश्रुतभेदसिद्धिः । अथ सर्वथा भेदमनयोर्मूगयते भवांस्तदयुक्तम् । किं हि नाम तद्वस्त्वस्ति यत्सर्वथा वस्त्वन्तराद्भिद्यते ?, घटादयोऽपि ह्याकारादिभिरेवाऽन्यतो भिद्यन्ते, सत्त्वप्रमेयत्वादिभिः पुनस्तुल्या एवेति । कोऽत्र मतिश्रुतयोः सर्वथा भेदचिन्तायां तवाभिनिवेशः । अत्र बहु वक्तव्यम्, तत्तु नोच्यते, ग्रन्थविस्तरभयाद्विशेषावश्यके च प्रपञ्चतोऽभिहितत्वादित्यलं प्रसङ्गेन । ___तथा अवधानमवधिरिन्द्रियाद्यनपेक्षमात्मनः साक्षादर्थग्रहणम् । अवधिरेव ज्ञानमवधिज्ञानं अथवा अवधिरेव मर्यादा तेनावधिना रूपिद्रव्यमर्यादात्मकेन ज्ञानमवधिज्ञानं, तच्चाऽनन्तद्रव्यभावविषयत्वात् तत्तारतम्यविवक्षया अनन्तभेदं, असङ्ख्यक्षेत्रकालविषयत्वात् तत्तारतम्यविवक्षयाऽसङ्ख्येयभेदं, प्रकारान्तरविवक्षया त्वनुगामुकादिभेदत आवश्यकादिभ्योऽनुसरणीयम् । तस्यावरणमप्येतावद्भेदभिन्नमेकग्रहणेन गृह्यते अवधिज्ञानावरणमिति । तथा सञ्जिभि वैः काययोगेन मनोवर्गणाभ्यो गृहीतानि । मनोयोगेन मनस्त्वेन परिणमय्यालम्ब्यमानानि द्रव्याणि मनासीत्युच्यन्ते, तेषां मनसां पर्यायाश्चिन्तनानुगुणाः परिणामास्तेषु ज्ञानं | मनःपर्यायज्ञानम् । अथवा यथोक्तस्वरूपाणि मनांसि पर्यत्यवगच्छतीति मनःपर्यायम्, कर्मण्यण, मन:पर्यायं तज्ज्ञानं चेति ११०
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy