________________
गा.-३९
बन्धशतकप्रकरणम्
पंच नव दोन्निअट्ठावीसा चउरो तहेव बायाला । दोन्नि य पंच य भणिया पयडीओ उत्तरा चेव ॥३९॥
AAAAAAA
अत्र प्रथमगाथया ज्ञानावरणाद्या अष्टौ मूलप्रकृतय उक्ताः । द्वितीयगाथया तु प्रतिमूलप्रकृतिसम्भविन्यो यथासङ्ख्यं । | पञ्चादिका उत्तरप्रकृतय इति समुदायार्थः । अधुना गाथाद्वयोद्दिष्टानामेव प्रकृतीनां समुत्कीर्तना क्रियते । तत्र ज्ञानस्यावरणं| | पञ्चधा भवतीति सम्बन्धः, तद्यथा-आभिनिबोधिकज्ञानावरणं, श्रुतज्ञानावरणं, अवधिज्ञानावरणं, मन:पर्यायज्ञानावरणं, केवलज्ञानावरणं चेति । दर्शनस्यावरणं नवविधं, तद्यथा-निद्रा, निद्रानिद्रा, प्रचला, प्रचलाप्रचला, स्त्यानद्धिः, चक्षुर्दर्शनावरणं, अचक्षुर्दर्शनावरणं, अवधिदर्शनावरणं, केवलदर्शनावरणं चेति । वेदनीयं द्विधा, सातवेदनीयमसातवेदनीयं चेति । मोहनीयमष्टाविंशतिधा, तत्र तिस्रो दर्शनमोहनीयप्रकृतयस्तद्यथा-मिथ्यात्वं सम्यमिथ्यात्वं सम्यक्त्वं चेति । चारित्रमोहनीयप्रकृतयस्तु पञ्चविंशतिः, तद्यथा-षोडश कषायाः, नव नोकषायाः तत्र कषायाः-अनन्तानुबन्धी क्रोधो मानो माया लोभश्च, एवमप्रत्याख्यानावरणप्रत्याख्यानावरणसञ्चलना अपि प्रत्येकं चत्वारः चत्वारो वक्तव्याः, सर्वेऽपि षोडश । नव नोकषाया इमेस्त्रीपुंनपुंसकलक्षणं वेदत्रयं, हास्यरत्यरतिशोकभयजुगुप्सालक्षणं हास्यादिषट्कं चेति । सर्वा अप्यष्टाविंशतिर्मोहनीयप्रकृतयः । आयुष्कं नारकतिर्यङ्मनुष्यदेवायुष्कभेदाच्चतुर्द्धा । नाम द्विचत्वारिंशद्भेदम् । तत्र चतुर्दश पिण्डप्रकृतयः, अष्टाविंशतिः
१०१