SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ गा.-३५ बन्धशतकप्रकरणम् छपंच उईरंतो बंधइ सो छव्विहं तणुकसाओ । अट्ठविहमणुहवंतो सुक्कज्झाणो डहइ कम्मं ॥३५॥ पूर्वोक्तस्वरूपस्तनुकषायः-सूक्ष्मसम्परायः पूर्वोक्तयुक्त्यैव षड्विधं पञ्चविधं वा उदीरयन् अष्टविधं चानुभवन् | षड्विधमुक्तस्वरूपं बध्नाति । स च तस्यामवस्थायां किं करोतीत्याह-विभक्तिव्यत्ययात् शुक्लध्यानेन प्रतिसमयमनन्तगुणं कर्म | निर्दहति । श्रेणिव्यवस्थितस्य हि जन्तोर्धर्मशुक्लध्यानद्वयमपि लघुचूर्णाद्यभिप्रायेणाविरुद्धमिति शुक्लध्यानस्यापि ग्रहणमिह न | विरुध्यते । उक्तञ्च सव्वप्पमायरहिया मुणओ खीणोवसंतमोहा य । ज्झायारो नाणधणा धम्मज्झाणस्स निद्दिट्ठा ॥१॥ एए च्चिय पुव्वाणं पुव्वधरा सुप्पसत्थसंघयणा । दुण्ह सयोगाऽजोगा सुक्काण पराण केवलिणो ॥२॥ अप्रमत्तमुनयः सामान्येन क्षपका उपशमकाश्च धर्मध्यानध्यातार इति प्रथमगाथाभावार्थः । ये धर्मध्यानध्यातार इति उक्ताः, एत एव 'पुव्वाण'त्ति पूर्वयोः पृथक्त्ववितर्कसविचारैकत्ववितर्काविचारलक्षणयोः शुक्लध्यानाद्यभेदयोः ध्यातारः, किं त्वयं विशेषः पूर्वधराश्चतुर्दशपूर्वविदस्तदुपयुक्ताः । इदं च विशेषणं प्रमत्तमुनीनां, न निर्ग्रन्थानां, माषतुषमरुदेव्यादीनामपूर्वविदामपि शुक्लध्यानोपपत्तेः । शेषं सुगमम्, नवरं द्वयोः परयोरन्त्ययोः सूक्ष्मक्रियानिवृत्त्युपरतक्रियाप्रतिपातिलक्षणयोः शुक्लध्यानभेदयोः ९४
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy