________________
गा.-३३
बन्धशतकप्रकरणम् ।
सयोगिकेवली पुनर्ज्ञानदर्शनावरणवेदनीयमोहनीयायुष्कान्तरायाणि षट्कर्माणि वर्जयित्वा शेषे नामगोत्राख्ये द्वे एव कर्मणी उदीरयति, वेद्यमानमेव ह्युदीर्यते । तत्र घातिचतुष्टयस्य क्षीणत्वाद्वेदनमेव नास्तीति कुतस्तदुदीरणा स्याद्, वेदनीयायुषोस्तूदीरणा प्रागेवोपरतेति नामगोत्रयोरेवेहोदीरणा । 'वढ्तो उ' इत्यादि तुः पुनरर्थे तस्य च व्यवहितसम्बन्धः अयोगी पुनर्न किञ्चित्कर्मोदीरयति । कथम्भूतो वर्तमानो भवोपग्राहिकर्मचतुष्टयोदयेऽपीति शेषः ।
ननु यदि तदुदयेऽसौ वर्त्तते तर्हि तानि किमिति नोदीरयतीति चेत् ? उच्यते-उदये सत्यपि योगसव्यपेक्षत्वादुदीरणायास्तस्य |च योगाभावादिति गाथार्थः ॥३२॥
भा० बंधाइतिगं भणियं अह एत्थणुपुव्विए गुणेसुं पि । तिन्हं पि य संजोगी इय दारं पभणई तत्थ ॥१६८॥
तदेवं बन्धोदयोदीरणाः प्रत्येकं गुणस्थानेषूक्ताः साम्प्रतं तासामेव सम्भवत इयतीः प्रकृतीबंध्नंस्तत्समकालमेव | इयतीर्वेदयति, इयतीश्च उदीरयतीत्येवंलक्षणः संयोगः प्रतिगुणस्थानं पश्चानुपूर्व्याऽयोगिगुणस्थानादारभ्य चिन्त्यते ।
अणुदीरंत अयोगी अणुहवइ चउव्विहं गुणविसालो ।
इरियावहं न बंधइ आसन्नपुरक्खडो संतो ॥३३॥ अयोगिकेवली गुणैर्दर्शनज्ञानचारित्रलक्षणैर्विशालो विस्तीर्णः प्रकर्षप्राप्त इत्यर्थः । स किमित्याह-उदीरणाविरहितत्वाद्,