SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ [७१-७१] आभाणकजगन्नाथ आभाणकजगन्नाथः [८०-८२] ५६. वृतिं न विरचयति, कडङ्गरीयान् धावयितुं कृत्याकृतो याति। ५७. शिलां ग्रहीतुं जालं विकिरति। ५८. शीर्षे विशीर्णे बुद्धिरागता। ५९. शुल्कं विना प्राप्तमिति शल्कं वेणोर्दशत्यसौ। ६०. समृद्धौ लक्ष्मीपर्व, व्युद्धौ भिक्षापर्व । ६१. सर्वैर्हसिते बधिरो घघति । ६२. सुवर्णशरावे लोष्टं प्रादुः। ६३. सुवर्णसूच्या नेत्रं विद्धम्। ६४. सूकरस्य पुरस्तात् सुखदुःखे प्रकटयन्ति। ६५. सूचीनिवार्य कण्टकमुत्पाटयितुं दर्वी ? ६६. स्वपादं स्वयमेव चिच्छित्सति। ६७. हंसतूलिकातल्पे शयानानां स्वप्ने यवागूदृष्टा। ६८. हयमारुह्य हिङ्ग खादित्वा हाहाकारं चकार। ६९. हिडिम्बं ह्वलयितुं हुडुक्कां ताडयति। ७०. हीरकं धृत्वा हेम्ने हाहाकारं करोति। [१०२०] ८०.रहस्यम् १. कुड्यगतैः कर्णैरकान्तः शोकान्तो जातः । २. रहस्यं जुगोपयिषतां पटहाजीवेन सख्यं रौरवनरकाय। ३. षटूर्णेषु पतितं षोडशभुवनेषु प्रसृतम्। ८१.वार्धक्यम् १. जरठस्यापि जठरं पटु। २. जरायाम अवरा बुद्धिः। ३. वयसि व्यतीते बाल्यं बहते। [१०२३] [१०२६] ८२.सादृश्यम् १. अलं वाचाटाय वावदूकः । २. इति-ह-स्माय इति-ह-स्म। ओदनः क्षुत:, ओतुः क्षुधितः। ४. काकदन्तान् गणयित्रा सह घूकशृङ्गं मापयितु सख्यम् । किटि: कर्दमं कणेहत्य वीक्षते। ६. किलस्य खलु सदृशः। ७९.५६.वृतिम्-पशूनामन्त-प्रवेशनिवारणार्थ केदारं परितः क्रियमाणमावरणम्। कडङ्गरीयान्-बुसादिभक्षणाय आगच्छन्तीर्धेनू । कृत्याकृततन्वमन्वज्ञानं दुष्टाय कर्मणे उपयुञ्जानान् । Professionals in black magic ७९.६०.व्वृद्धौ-समृद्धिविरुद्धायां परिस्थित्याम् । ७९.६१. सर्वेर्हसनानन्तरम्,न तु तद्धसनसमकाले। घधति-उच्चैर्हसति,Guffaws| ७९.६६.चिच्छित्सति-छेत्तुम् इच्छति । छिद्+सन् । ७९.६९.ह्वलयितुंकम्पयितुं, लक्षणया भाययितुम् । हुडुक्का-लघुकायकम् अवनद्धवाद्यविशेषम् । ८१.१.जरठस्य-वृद्धस्य । ८१.२.अ-वरा=अप्रशस्ता । ८१.३.बहते-वृद्धि गच्छति। बही वृद्धौ भ्वादिः । ८२.१.वाचाटाय-वादप्रियाय । वावदूका-वादाकाक्षी। ८२.३.ओतु:-बिडालः । ८२.५.किटि:-वराह । कोहत्य-संतृप्तिजननपर्यन्तम्। ७०
SR No.009499
Book TitleAabhanak Jagannath
Original Sutra AuthorN/A
AuthorS Jagannath
PublisherS Jagannath
Publication Year
Total Pages73
LanguageSanskrit
ClassificationBook_Devnagari
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy