SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ [२७-२८ आभाणकजगन्नाथ आभाणकजगन्नाथ २८-३०] २७.आलस्यम् ܪܝ ܘ ४. अस्तव्यस्तं सकलं ध्वस्तम् । ५. चण्डी च चामुण्डी च। पङ्के मुमूर्षोः पाण्डित्यप्रलापा। रणरणकेन द्राङ्गति, शुण्डां च शुनो लालं करोति। व्यग्रमना उग्रभैरवः। शक्तिरपि नास्ति, शान्तिरपि नास्ति। [३९९] २९. प्रेम्णो महिमा ;ܢ ;e १. काकिण्यर्जनरहित: पात्रेसमितः । २. क्लेशो नास्ति, कुशलं नास्ति। ३. चलतां सौभाग्यं, स्वपतां दौर्भाग्यम्। नगरे कलकले प्रवृत्ते नकुलो निद्राति। पिपीलिकायै आदिष्टे कार्ये पिपीलिका पुत्तिकायै आदिष्टवती। ६. यद्भव्यं तद् भवतु, उदरपूरं भोजनं भवतु। वेश्मनि धगधगायमाने वीणां वादयति। ८. वैयाकरणखसूचिरपि हैयङ्गवीनभक्षणे न केनापि पराजीयते। ९. सान्द्रया तन्द्रया माणिक्येऽपि मण्डूरं जातम् । [३९०] २८.अव्यवस्थितचित्ता १. अबद्धा बुद्धिरशुद्धा सिद्धिः। २. अव्यवस्थितचित्तानाम् अविवेको महान् । ३. असंबद्धस्य गृध्रस्य यद्वा तद्वा बुद्धिः। १. दयितस्य सुधाकरास्या परेषां सूकराया। २. पिशाची तव कृते घृताची । ३. लोकानां खर: ; कस्याश्चित् स्मरः । ३०.विवाह [४०२] ३०. १. उद्वाहानन्तरं सद्वाक्यानाम् उद्वासः । २. उद्वाहे वाञ्छा यद्वाऽके वाञ्छा ? ३. उलूलुशब्दैरुरभ्रसंपातः । ४. ऊढो वा गाढ-मूढो वा ? ५. परिणये पुरुसंपत पुरोहितानाम्। २८.७.रणरणकेन-उत्कण्ठया। २९.१.दयितस्य-प्राणप्रियस्य । २९.२.धृताची-अप्सरोविशेषः । ३०.१.उद्वाहानन्तरम्-विवाहानन्तरम् । उवास:-उद्भशनम्। ३०.२. यद्वाअथवा। अके-असुखे, दुःखे । ३०.३.उलूलुशब्दैः-विवाहे महाजनक्रियमाणैर्मङ्गलत्वेन गृहीतैः शब्दविशेषैः । शब्दोऽयमधुनाऽपि विवाहाख्ये गर्दभमेले वङ्गादिदेशेषु महिलाभिः क्रियत इति श्रूयते। उरभसंपात:-उराणां मेषाणां परस्परेण घट्टनम् । ३०.५. पुरु-प्रचुरम्। २७.१,काकिणी-पैसा । पात्रेसमित:-केवलं भोजनकाले समुपतिष्ठन् कार्य किञ्चिदप्यकुर्वन् । २७.३.'चरन् वै मधु विन्दति' इत्यस्य ब्राह्मणग्रन्थस्य नवीनं रूपमिदम् । २७.९.तन्द्रया-जागर्तिस्वप्नयोर्मध्यावस्थया ।मण्डूरंलोहमलम् । यद्यपि माणिक्ये नैतत् संभवं तथाऽपि मलत्वरूपधर्मवद् वस्त्विदमिति हेतोः साम्यलेशः।
SR No.009499
Book TitleAabhanak Jagannath
Original Sutra AuthorN/A
AuthorS Jagannath
PublisherS Jagannath
Publication Year
Total Pages73
LanguageSanskrit
ClassificationBook_Devnagari
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy