SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ [१३-१३] आभाणकजगन्नाथ आभाणकजगन्नाथ: १३-१३] ३१. निश्श्रेणिकया किं वृक्षविहारविदग्धस्य वानरस्य ? ३२. निकृष्टे स्वकीये स्वर्णे नाडिन्धमा न निन्दनीया । निरुत्साहानाम् उरुगायः पन्थाः शय्या । ३४. निघृणानामपि नाडी स्पन्दते। ३५. निशितबुद्धिं शास्त्राणि नमस्कुर्वन्ति । ३६. निशिताऽपि छुरिका न्यग्रोधं न छिनत्ति। ३७. पङ्केऽवलोकिते पङ्कजमवलोक्यते। ३८. पटच्चरे गतो मानः पट्टचीरदानादपि न निवर्तते। ३९. परशुविद्या पामरहृद्या। ४०. पर्पटीमुत्पाट्य पर्वतमुत्पाटय। ४१. पीडायामपि पन्थानं पश्यन्ति पटुबुद्धयः । ४२. प्रत्नं भाषितं शस्तं, प्रत्यग्रं भूषितं शस्तम्। ४३. प्रत्यग्रहरिणापेक्षया पुराण शशको वरम् । ४४. प्रसरन्तं पूतिगन्धम् अररं न प्रतिरुणद्धि। ४५. प्राप्तमेव पुरु पुण्यम्। ४६. फाले ताडिते फलं न खात् पतति। ४७. बुद्ध्यनुसारं भक्षय मा जिह्वानुसारम् । ४८. भूते सदा वर्तमाना प्रेता भवन्ति। ४९. मधु न स्रवति मरिचफलात् । १३.३३.उरुगाय:-श्रेष्ठेर्गेयस्तुत्य इति यावत् । वैदिकोऽयं शब्दः । १३.३८ पटचरे-जीर्णवस्वे । १३.४२.प्रत्न-प्राचीनम् । प्रत्यग्रम्-नवीनम् । १३.४४.अररं-कपाटम् । १३.४५.पुरु-अधिकम् । १३.४६.फाले-ललाटे ।खात्आकाशात्। ५०. मरणमेव मनुजानां शरणम् अन्तिमम् । ५१. महतां महान् क्लेशः। ५२. महाबलिनोऽपि कदाचिन्महाक्रोशं मुञ्चन्ति। ५३. महाभ्यासेन मायां मर्दयेत् । ५४. मुसलो हलं दृष्ट्वा मुखं साचीकरोति। ५५. मूषिकं जित्वा मृगाधिपं जय। ५६. यतोऽस्ति वृषावाक्, ततो न मृषावाक् । ५७. रथो न चलति रत्नगर्भा विना। ५८. राज्ञा गृहीता राराजन्ते। ५९. रोषवतामने जोषमुपविश। ६०. लब्धमेव ललितम्। ६१. लोकोद्धारे शोकोऽनल्पः। ६२. वद सत्यं, वह कुणपम्। ६३. वर्म नास्ति धर्मदेवतायाः। ६४. वस्त्रशुद्धौ निर्णेजक एव निर्णेता। ६५. विदुरान्नीतिश्चतुराद् भीतिः । ६६. विश्वं वीक्ष्य विरोधं विजयस्व । ६७. व्याघ्र तृणं खादति, वराह किं करोतु ? ६८. शाखासु चङ्क्रमणं शाखामृगाणां प्रकृतिः । १३.५४.साचीकरोति-वक्रीकरोति । १३.५६.वृषा वाक्-वीरवाणी । वैदिकोऽयं शब्दः । १३.५७.रत्नगर्भा-भूमिम् । १३.५९.जोषम्-गात्रसंयमपूर्वकम् । १३.६२.कुणपम्-शवम्। १३.६४.निर्णेजका-रजकः ।
SR No.009499
Book TitleAabhanak Jagannath
Original Sutra AuthorN/A
AuthorS Jagannath
PublisherS Jagannath
Publication Year
Total Pages73
LanguageSanskrit
ClassificationBook_Devnagari
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy