SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ अर्थप्रकाशसमेताकञ्चिन्नोमयविभ्रष्टश्छिन्नाभ्रमिव नश्यति । अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ।। श्रीभगवानुवाच पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते । नहि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ॥ प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः। शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते' इति ॥५॥ कथमयं परलोके वर्तत इत्यत्राऽऽह यथाऽऽदर्श तथाऽऽत्मनि यथा स्वप्ने तथा पितृलोके यथाऽप्सु परीव ददृशे तथा गन्धर्वलोके छाया तपयोरिव ब्रह्मलोके ॥६॥ यथाऽऽदर्शे दर्पणे चक्षुर्मासाद्यवयवैरात्मनो रूपं दृश्यते तथाऽऽत्मन्यात्मभावना नित्यमस्ति । विना दर्पणेन न सर्वावयवभानमतोऽत्र तहणम् । यथा स्वप्ने स्वप्नावस्थायां दर्पणे दृष्टात्मरूपाध्यासेन तादृशमात्म• रूपं व्यापारपरं स्वजनैः परिवृतं दृश्यते तथा पितृलोके वासनामयशरीरयुक्तो मातापित्रादिभिनानास्वजनरावृतस्तैः क्रीडानन्दवान्भवति । यथाऽप्सु परीव ददृशे परिदृश्यत इव तथा गन्धर्वलोके । यदप्सु प्रतिरूपं दृश्यते तत्तञ्चञ्चलतायोगेन चञ्चलम् । यथा पितृलोके स्वजना: वृतत्वं तथा न गन्धर्वलोके कोऽप्यात्मना दृश्यत आत्मनाऽऽत्मैवैको दृश्यते । अयं विज्ञानवांस्तेनाऽऽत्मानात्मविचारे मतिमान् । तल्लोके नाध्यात्मविद्याप्रसङ्गः । तत्स्थाः केवलविषयमोगरता एव । तस्मान्न तत्रावस्थाने मतिरस्योवं गन्तुं कामनयाऽसु दृश्यमानप्रतिरूपवञ्चञ्चलोऽतस्तथोच्यते । तत ऊवं गतस्याग्रे ब्रह्मलोकावाप्तिरेव । तस्मिन्बह्मलोके तस्य छायातपयोरिव मतिर्भवति । कथं, यथा पुंसः कदाचि. छायायां मतिर्भवति कदाचिदातपेऽपि । ब्रह्मलोकः सर्वलोकश्रेष्ठो नित्यं तत्र वेदतदर्थवादस्तस्मादध्यात्मविद्याप्रसङ्ग एव सर्वदा । इतो गतः स योगभ्रष्टो विज्ञानवाञ्छवणादिष्वास्थापरस्तेन तद्वासे मतिरस्य संभवति कदाचिदमतिरपि । तत्र किं निमित्तमिति चेत् । प्रारब्धप्रतिकूलखेन दशासिध्यभावान्न पूर्णत्वेनास्य ब्रह्मप्राप्तिरभूत् । तदास्थावांश्च । तद्योगप्रभावादस्य लोकान्तरप्राप्तिरासीत् । न तद्भोगवासनया । तन्म
SR No.009368
Book TitleIshakenakathopnishad
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnandashram Mudranalay
Publication Year1915
Total Pages102
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy