SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ अर्थप्रकाशसमेता किमन्तरङ्गम् । एवमपि भूतभव्यस्य भूतस्य पौर्वकालिकस्य मव्यस्यो - त्तरकाले भविष्यतो भवतश्वेशानमीष्ट ईशानस्तमीशानं नियामकं मायोपाधियोगादीश्वररूपेण वर्तमानम् । एवंरूपमात्मानं वेदोक्तप्रकारेणाSSत्मन्यात्मत्वेन निर्विकल्पतयाऽपरोक्षत्वेन विजानाति ततो न विजुगुप्सते किंचिन्निन्दति । कस्मात् एतद्वा एतदेवोक्तमात्मरूपं तद्यद्विजुगुप्स्यम् । सोऽन्वयेन सर्वात्मरूपदर्शी भवति ॥ ५ ॥ ८२ यः पूर्वं तपसो जातमद्भयः पूर्वमजायत । गुहां प्रविश्य तिष्ठन्तं यद्धृतेभिर्व्यपश्यत एतद्वै तत् ॥ ६ ॥ यो पूर्वमुत्पत्तिकाले संप्राप्ते तपसो ज्ञानमयाच्छबलं जातमुक्तं चान्यत्र 'तपसा चीयते ब्रह्म' इति 'यस्य ज्ञानमयं तपः' इति च । निर्विकल्पत्वं परित्यज्य प्रज्ञानं स्वगतमवलम्ब्य निद्वितः प्रबुद्ध इव सविकल्पमभूत् । ततो व्यक्तमहत्तत्त्वत्रिगुणाहंकाररूपेण भूत्वा भूतप वकं निर्माय तत्कार्यं ब्रह्माण्डं विरचय्यान्तः पूर्वं प्राग्जीवसर्जनादद्भ्य उदकेभ्योऽन्तरवशिष्टेभ्योऽजायत प्रथमशरीरि जातम् । उक्तं चान्यत्र 'अद्भ्यः संभूतः पृथिव्यै रसाच्च' इति । कथमद्भ्योऽजायत तदेतदृगारण्यकेऽभिहितमस्ति - 'आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किंचन मिषत्स ईक्षत लोकान्नु सृजा इति स इमाँल्लोकानसृजताम्भो मरीचीर्मरमापोऽदोऽम्भः परेण दिवं द्यौः प्रतिष्ठाऽन्तरिक्षमरीचयः पृथ्वीमरो या अधस्तात्ता आपः स ईक्षतेमे नु लोका लोकपालान्नु सृजा इति सोऽद्वय एवं पुरुषं समुद्धृत्यामूर्च्छयत्तमभ्यतपत्तस्याभितप्तस्य मुखं निरभिद्यत यथाऽण्डं मुखा द्वाग्बाचोऽग्निर्नासिके निरभिद्येतां नासिकाभ्यां प्राणः प्राणाद्वायुरक्षिणी निरभिद्येतामक्षिभ्यां चक्षुश्चक्षुष आदित्यः कर्णौ निरभिद्येतां कर्णाभ्यां श्रोत्रं श्रोत्राद्दिशस्त्वनिरभिद्यत त्वचो लोमानि लोमभ्य ओषधिवनस्पतयो हृदयं निरभिद्यत हृदयान्मनो मनसश्चन्द्रमा नामिर्निरभिद्यत नाभ्या अपानोऽपानान्मृत्युः शिश्नं निरभिद्यत शिश्नादेतो रेतस आप:' इति । गुहां तद्देहनिष्ठहृदयगुहां प्रविश्य तिष्ठन्तं तिष्ठत् । यद्देहचतुष्टयरूपेण वर्तमानं भूतेभिर्भूतैर्व्यपश्यत व्यहश्यत दृष्टम् । एतद्वा एतदुक्तमात्मरूपमेव तत्सर्वजगदुत्पत्तिकारणत्वेनोक्तम् ॥ ६ ॥
SR No.009368
Book TitleIshakenakathopnishad
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnandashram Mudranalay
Publication Year1915
Total Pages102
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy